भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 327, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 327

( ३१२ ) पञ्चतन्त्रम् ।

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ८२ ॥

कुलके वास्ते एकको त्यागन करे, ग्रामके वास्ते कुलको त्यागदे देशके वास्ते ग्रामको त्यागदे अपने निमित्त पृथिवीको त्यागदे ॥ ८२ ॥

क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।
परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ ८३ ॥

कल्याणवाली, शस्य देनेवाली, नित्य पशुकी वृद्धि करनेवाली भी भूमिको राजा बिना विचारे अपने निमित्त त्यागदे ॥ ८३ ॥

आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ८४ ॥

आपत्तिके निमित्त धनकी रक्षा करे, धनोंसेभी स्त्रीकी रक्षा करे, अपनी आत्माको सदा स्त्री और धनसे रक्षाकरे ॥ ॥ ८४ ॥”

ततश्च अन्ये प्रोचुः-“भोः ! पितृपैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत् क्रियतां तेषां कृते काचित् विभीषिका यत् कथमपि दैवात् न समायान्ति । उक्तञ्च-

तब और बोले-“भो ! पितृ पितामहका स्थान एक साथ त्यागन नहीं हो सक्ता है सो उनके निमित्त कोई भय देना चाहिये जो किसी प्रकार भाग्यसे न आवे । कहा है-

निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषं भवतु मा वास्तु फणाटोपो भयङ्करः ॥ ८५ ॥”

निर्वीर्य सर्पकोभी बड़ा फग करना चाहिये विष हो या नहो फणाटोप भयंकर है ॥ ८५ ॥”

अथ अन्ये प्रोचुः-“यदि एवं ततः तेषां महद्विभीषिकास्थानमस्ति येन न आगमिष्यन्ति । सा च चतुरदूतायत्ता विभीषिका । यतो विजयदत्तो नाम राजा अस्मत्स्वामी शशकः चन्द्रमण्डले निवसति तत् प्रेष्यतां कश्चित् मिथ्यादूतो यूथाधिपसकाशं यत् “चन्द्रस्त्वामत्र ह्रदे आगच्छतं निषेधयति यतोऽस्मत्परिग्रहोऽस्य समन्ताद्वसति” एवमभि-