पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 367, कुल 536 में से
संदर्भ में पढ़ें( ३५२ ) पञ्चतन्त्रम् ।
अरिमर्दनः प्राह,—"कथमेतत् ?" वक्रनासः कथयति—
अरिमर्दन बोला,—"यह कैसे ?" वक्रनास कहने लगा—
कथा ९.
अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोणनामा ब्राह्मणःप्रतिग्रहधनः सततविशिष्टवस्त्रानुलेपनगन्धमाल्यालङ्कारताम्बूलादिभोगपरिवर्जितः प्ररूढकेशश्मश्रुनखरोमोपचितः शीतोष्णवातवर्षादिभिः परिशोषितशरीरः । तस्य च केनापि यजमानेन अनुकम्पया शिशुगोयुगं दत्तम्। ब्राह्मणेन च बालभावात् आरभ्य याचितघृततैल्यवसादिभिः संवर्द्धयं सुपुष्टं कृतम् । तच्च दृष्ट्वा सहसा एव कश्चित् चौरः चिन्तितवान्, "अहमस्य ब्राह्मणस्य गोयुगमिदमपहरिष्यामि" । इति निश्चित्य निशायां बन्धनपाशं गृहीत्वा यावत् प्रस्थितःतावदर्द्धमार्गे प्रविरलतीक्ष्णदन्तपंक्तिः उन्नतनासावंशो प्रकटरक्तान्तनयन उपचितस्नायुसन्ततिर्नतगात्रः शुष्ककपोलः सुहुतहुतवहपिङ्गलश्मश्रुकेशशरीरः कश्चित् दृष्टः । दृष्ट्वा च तं तीव्रभयत्रस्तोऽपि चौरोऽब्रवीत्—"को भवानिति ?" स आह—"सत्यवचनोऽहं ब्रह्मराक्षसः । भवान् अपि आत्मानं निवेदयतु" सोऽब्रवीत्—"अहं क्रूरकर्मा चौरः। दरिद्रब्राह्मणस्य गोयुगं हर्तुं प्रस्थितोऽस्मिः।" । अथ जातप्रत्ययो राक्षसोऽब्रवीत्—"भद्र ! षष्ठााहकालिकोऽयं, अतः तमेव ब्राह्मणमद्य भक्षयिष्यामि । तत् सुन्दरमिदमेककार्यों एव आवाम्" । अथ तौ तत्र गत्वा एकान्ते कालमन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्—"भद्र ! नैष न्यायः, यतो गोयुगे मया अपहृते पश्चात् त्वमेनं ब्राह्मणं भक्षय " । सोऽब्रवीत्—" कदाचिदयं ब्राह्मणो गोशब्देन बुध्येत, तदा अनर्थकोऽयं मम आरम्भः स्यात्" । चौरोऽपि अब्रवीत्—"तव अपि यदि भक्षणाय उपस्थितस्यान्तर एकोपि