पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 373, कुल 536 में से
संदर्भ में पढ़ें| ( ३५८ ) | पञ्चतन्त्रम् । |
|---|
तथाच-
और देखो-
प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथकारः स्वकां भार्य्यां सजारां शिरसाऽऽवहत् ॥२०२॥”
प्रत्यक्ष दोष होनेपर भी ( पापीकी ) विनयसे मूर्ख शान्त होता है रथकारने अपनी भार्याको जारसहित शिरपर उठाया ॥ २०२ ॥”
मन्त्रिणः प्राहुः-“कथमेतत् ?” रक्ताक्षः कथयति-
मंत्री बोले,-“यह कैसे ?” रक्ताक्ष कहता है-
कथा ११.
अस्ति कस्मिंश्चिदधिष्ठाने वीरधरो नाम रथकारः, तस्य भार्या कामदमनी । सा च पुंश्चली जनापवादसंयुक्ता । सोऽपि तस्याः परीक्षणार्थं व्यचिन्तयत् ।-“अथ मया अस्याः परीक्षणं कर्त्तव्यम् । उक्तञ्च यतः-
किसी एक स्थानमें वीरधर नामवाला बढई रहता है । उसकी भार्या कामदमनी । वह व्यभिचारिणी लोकापवादसे युक्तथी । वह भी उसकी परीक्षा करनेका विचार करताथा कि “किस प्रकारमें इसकी परीक्षा करूं । कहाहै-
यदि स्यात्पावकः शीतः प्रोष्णो वा शशलाञ्छनः ।
स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥२०३॥
यदि अग्नि शीतल होजाय वा चन्द्रमा गरम होजाय वा दुर्जन हित होजाय तो स्त्रियोंके सतीपनका विश्वास हो ॥ २०३ ॥
जानामि च एनां लोकवचनात् असतीम् । उक्तञ्च-
लोकप्रवादसे मैं इसको असती जानता हूं । कहा है-
यच्च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् ।
तत्सर्वं वेत्ति लोकोऽयं यत्स्याद्ब्रह्माण्डमध्यगम् ॥ २०४ ॥
जो वेदशास्त्रमें न देखा न सुना है और जो कुछ इस संसारके मध्यमें स्थित है उसको स्त्री लोक सब जानते हैं ॥ २०४ ॥
एवं सम्प्रधार्य भार्यामवोचत्-“प्रिये ! प्रभातेऽहं ग्रामान्तरं यास्यामि । तत्र कतिचिद्दिनानि लगिष्यन्ति । तत