पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 379, कुल 536 में से
संदर्भ में पढ़ें( ३६४ ) पञ्चतन्त्रम् ।
अग्निपतनकी इच्छा करता है ?” । वह बोला-“मेरी तो तुम्हारे निमित्त मेघवर्णने यह आपत्ति की । सो मैं उससे वैर निकालनेको उलूकत्वकी इच्छा करता हूं” । यह सुन राजनीतिमें चतुर रक्ताक्ष बोला,-“भद्र ! तुम कुटिल और बनावटी वचन कहनेमें चतुर हो । जो तू उलूक योनिमें प्राप्त हुआ भी अपनी वायस योनिकोही बहुत मानेगा । इसमें यह आख्यान सुना जाता है-
सूर्य्यं भर्त्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् । स्वजातिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा ॥ २०९ ॥”
मूषिका सूर्य मेघ वायु पर्वत भर्त्ताको छोड़ त्यागनेके अयोग्य अपनी जातिको प्राप्त हुई ( जातिका स्वभाव अतिक्रम नहीं हो सकता ) ॥ २०९ ॥ ”
मन्त्रिणः प्रोचुः,-“कथमेतत् ?” रक्ताक्षः कथयति- मंत्री बोले-“यह कैसी कथा है ?” रक्ताक्ष कहने लगा-
कथा १२.
अस्ति विषमशिलातलस्खलिताम्बुनिर्घोषश्रवणसन्त्रस्तमत्स्यपरिवर्त्तनसञ्जनितश्वेतफेनशबलतरङ्गाया गङ्गायाः तटे जपनियमतपःस्वाध्यायोपवासयोगक्रियानुष्ठानपरायणैः परिपूतपरिमितजलजिघृक्षुभिः कन्दमूलफलशैवलाभ्यवहारकदर्थितशरीरैः वल्कलकृतकौपीनमात्रप्रच्छादनैः तपस्विभिः आकीर्णमाश्रमपदम् । तत्र याज्ञवल्क्यो नाम कुलपतिः आसीत् । तस्य जाह्नव्यां स्नात्वा उपस्पृष्टुमारब्धस्य करतले श्येनमुखात् परिभ्रष्टा मूषिका पतिता । तां दृष्ट्वा न्यग्रोधपत्रेऽवस्थाप्य, पुनः स्नात्वा उपस्पृश्य च, प्रायश्चित्तादिक्रियां कृत्वा च, मूषिकां तां स्वतपोबलेन कन्यकां कृत्वा समादाय स्वाश्रमं आनिनाय । अनपत्याञ्च जायामाह,-“भद्रे ! गृह्यतामियं तव दुहितोत्पन्ना प्रयत्नेन संवर्द्धनीया”इतिततःतया संवर्द्धिता लालिता पालिता च यावत् द्वादशवर्षा संजाता । अथ विवाहयोग्यां तां दृष्ट्वा भर्त्तारमेव जाया उवाच,-“भो भर्त्तः ! किमिदं न अवबुध्यसे यथा अस्याः स्वदुहितुर्विवाहसमयातिक्रमो भवति” असौ आह- । “ साधु उक्तम् । उक्तञ्च-