भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 382, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 382

भाषाटीकासमेतम् । ( ३६७ )

अतोऽहमेनां सदृशाय प्रयच्छामि न अन्यस्मै ।
उक्तञ्च-
सो मैं इसको समानके लिये दूंगा न और किसीको । कहा है-

ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः ॥ २१९ ॥

जिन दोनोंका समान धन और जिन दोनोंका समान कुलहो उन्हींका विवाह और मित्रभाव होना चाहिये धनी निर्धनीका नहीं ॥ २१९ ॥

तथाच-
और देखो-

कुलञ्च शीलञ्च सनाथता च
विद्या च वित्तञ्च वपुर्वयश्च ।
एतान्गुणान्सप्त विचिन्त्य देया
कन्या बुधैः शेषमचिन्तनीयम् ॥ २२० ॥

कुल, शील ( चरित्र ), सनाथता ( सहाय ), विद्या, धन, शरीर, अवस्था यह सात गुण विचार कर बुद्धिमान्‌को कन्या देनी चाहिये इसके उपरान्त भवितव्यका विचार न करे ॥ २२० ॥

तत् यदि अस्या रोचते तदा भगवन्तमादित्यमाहूय तस्मै प्रयच्छामि” । सा प्राह,—“इह को दोषः ? क्रियतामेतत्” । अथ मुनिना रविराहूतः । वेदमन्त्रामन्त्रणप्रभावात् तत्क्षणादेवाभ्युपगम्यादित्यः प्रोवाच,—“भगवन् ! किमहमाहूतः ?” सोऽब्रवीत,—“एषा मदीया कन्यका तिष्ठति । यदि एषा त्वां वृणोति तर्हि उद्वहस्व” इति । एवमुक्त्वा स्वदुहितरमुवाच,—“पुत्रि ! किं तव रोचते एष भगवान् त्रैलोक्यदीपको भानुः ?” पुत्रिका अब्रवीत्,—“तात ! अतिदहनात्माकोऽयं न अहमेनमभिलषामि । तस्मात् अन्यः प्रकृष्टतरः कश्चित आहूयताम्” । अथ तस्याः तद्वचनं श्रुत्वा मुनिः भास्करमुवाच,—“भगवन् ! त्वत्तोऽधिकोऽस्ति कश्चित् ?” भास्करः प्राह,—“अस्ति मत्तोऽपि अधिको मेघो येन आच्छादितोऽ-