पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 383, कुल 536 में से
संदर्भ में पढ़ें( ३६८ ) पञ्चतन्त्रम् ।
हमदृश्यो भवामि”। अथ मुनिना मेघमपि आहूय कन्या अभिहिता,-“पुत्रिके! अस्मै त्वां प्रयच्छामि?”। सा प्राह,- “कृष्णवर्णोऽयं जड़ात्मा च। तदस्मात् अन्यस्य प्रधानस्य कस्यचित् मां प्रयच्छ”। अथ मुनिना मेघोऽपि पृष्टः-“भो भो मेघ ! त्वत्तोऽपि अधिकोऽस्ति कश्चित्?” मेघेनोक्तं, “मत्तोऽपि अधिकोऽस्ति वायुः। वायुना हतोऽहं सहस्रधा यामि”। तच्छ्रुत्वा मुनिना वायुराहूतः। आह च,-“पुत्रिके ! किमेष वायुस्ते विवाहाय उत्तमः प्रतिभाति?” सा अब्रवीत्-“तात ! अतिचपलोऽयं तदस्मादपि अधिकः कश्चित् आनीयताम्”। मुनिराह,-“वायो ! त्वत्तोऽपि अधिकोऽस्ति कश्चित्?” पवनेन उक्तं,-“मत्तोऽपि अधिकोऽस्ति पर्वतो येन संस्तभ्य बलवानपि अहं ध्रिये”। अथ मुनिः पर्वतमाहूय कन्यामुवाच-“पुत्रिके! त्वामस्मै प्रयच्छामि?”। सा प्राह,-“तात ! कठिनात्मकोऽयं स्तब्धश्च। तत् अन्यस्मै देहि मां”। मुनिना पर्वतः पृष्टः-“भोः पर्वतराज ! त्वत्तोऽपि अधिकोऽस्ति कश्चित्”। गिरिणा उक्तम्-“मत्तोऽपि अधिकाः सन्ति मूषिका ये मच्छरीरं बलात् विदारयन्ति”। ततो मुनिः मूषिकमाहूय तस्या अदर्शयत्। आह च-“पुत्रिके ! त्वामस्मै प्रयच्छामि किमेष प्रतिभाति ते मूषिकराजः?”। सापि तं दृष्ट्वा स्वजातीय एष इति मन्यमाना पुलकोद्भूषितशरीरोवाच-“तात ! मां मूषिकां कृत्वा अस्मै प्रयच्छ। येन स्वजातिविहितं गृहधर्मम् अनुतिष्ठामि”। ततः सोऽपि स्वतपोबलेन तां मूषिकां कृत्वा तस्मै प्रादात्। अतोऽहं ब्रवीमि-
सो यदि इसको अच्छा लगे तो भगवान् सूर्यको बुलाकर उन्हें प्रदान करूं”। वह बोली-“इसमें क्या दोष है। यही करो”। तब मुनिराजने सूर्यको बुलाया। वेदमंत्रके उच्चारणप्रभावसे उसी क्षणमें सूर्य आकर बोले-“भगवन्, मुझे क्यों बुलाया है?”। वह बोले-“यह मेरी कन्या है। जो यह तुमको वरण करे तो