भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 398, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 398

भाषाटीकासमेतम् । ( ३८३ )

सो हे राजन् ! मैंने यह असिधाराव्रतका आचरण किया, जो शत्रुके सगमें रहा । जो तुमने कहा वह मैंने साक्षात् अनुभव किया । कहा है कि-

अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थमभ्युद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ २४५ ॥

अपमानको आगे मानको पीछे कर बुद्धिमान् आपना कार्य साधे स्वार्थका भ्रष्ट होजानाही मूर्खता है ॥२४५॥

स्कन्धेनापि वहेच्छत्रुं कालमासाद्य बुद्धिमान् ।
महता कृष्णसर्पेण मण्डूका बहवो हताः ॥२४६॥

समय प्राप्त होनेपर बुद्धिमान् शत्रुको कंधेपर चढावै एक बडे काले सापसे बहुत मेंडक मारे गये ॥२४६॥

मेघवर्ण आह-“कथमेतत् ?” स्थिरजीवी कथयति-
मेघवर्ण बोला-“यह कैसे ?” स्थिरजीवी कहने लगा-

कथा १५.

अस्ति वरुणाद्रिसमीपे एकस्मिन् प्रदेशे परिणतवया मन्दविषो नाम कृष्णसर्पः, स एवं चित्ते सञ्चिन्तितवान् “कथं नाम मया सुखोपायवृत्त्या वर्त्तितव्यम्” इति । ततो बहुमंडूकं ह्रदमुपगम्य धृतिपरीतमिव आत्मानं दर्शितवान् । अथ तथा स्थिते तस्मिन् उदकप्रान्तगतेन एकेन मण्डूकेन पृष्टः,-“माम! किमद्य यथापूर्वमाहारार्थं न विहरसि ?” सोऽब्रवीत्,-“भद्र! कुतो मे मन्दभाग्यस्य आहाराभिलाषः । यत्कारणमद्य रात्रौ प्रदोष एव मया आहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्ग्रहणार्थं मया क्रमः सज्जितः सोऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरमपक्रान्तो न विभावितो मया क्वापि गतः । तत्सदृशमोहितचित्तेन मया कस्यचिद् ब्राह्मणस्य सूनोः ह्रदतटजलान्तःस्थोऽङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वमुपागतः । अथ तस्य पित्रा दुःखितेन अहं शप्तः, यथा “दुरात्मन् ! त्वया निरपराधो मत्सुतो