पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 413, कुल 536 में से
संदर्भ में पढ़ें( ३९८ ) पञ्चतन्त्रम् ।
प्रिय वा द्वेषी मूर्ख वा पंडित जो वैश्वदेव वलिके समय प्राप्त हो वह स्वर्ग-गमनमें सेतुभूत अतिथि होता है ॥ २ ॥
न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च ।
अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥ ३ ॥
वैश्वदेवके अन्तमें श्राद्धमें उपस्थित अतिथिका घर गोत्र विद्या कुल न पूछे, यह मनुने कहाहै ॥ ३ ॥
दूरमार्गश्रमश्रान्तं वैश्वदेवान्तमागतम् ।
अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥ ४ ॥
दूर मार्गके श्रमसे प्राप्तहुए वैश्वदेवके अन्तमें आयेहुए अतिथिका जो पूजन करताहै, वह परम गतिको प्राप्त होताहै ४ ॥
अपूजितोऽतिथिर्यस्य गृहाद्याति विनिश्श्वसन् ।
गच्छन्ति विमुखास्तस्य पितृभिः सह देवताः ॥ ५ ॥
जिसके घरसे अपूजित अतिथि श्वास लेता हुआ जाताहै, उसके यहांसे देवता पितरों सहित विमुख होकर चल जाते है ॥ ५ ॥
एवमुक्त्वा तस्मै जम्बूफलानि ददौ । सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनमगात् । एवं नित्यमेव तौ वानरमकरौ जम्बूच्छायास्थितौ विविधशास्त्रगोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपत्न्याः प्रयच्छति । अथ अन्यतमे दिवसे तया स पृष्टः—“नाथ ! क्व एवंविधानि अमृतफलानि प्राप्नोषि?”। स आह—“भद्रे ! मम अस्ति परमसुहृद् रक्तमुखो नाम वानरः स प्रीतिपूर्वमिमानि फलानि प्रयच्छति” । अथ तया अभिहितम्—“यः सदा एव अमृतप्रायाणि ईदृशानि फलानि भक्षयति तस्य हृदयममृतमयं भविष्यति । तत् यदि मया भार्य्यया ते प्रयोजनं, ततः तस्य हृदयं मह्यं प्रयच्छ, येन तद्भक्षयित्वा जरामरणरहिता त्वया सह भोगान् भुनज्मि” । स आह—“भद्रे ! मा मा एवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता, अपरं फल-