पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 418, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ४०३ )
शक्यते तत्र गन्तुम्,तस्मात तामपि मे भ्रातृपत्नीमत्र आनय येन प्रणम्य तस्या आशीर्वादं गृह्णामि” । स आह,—“भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिनप्रदेशेऽस्मद्गृहम् । तत् मम पृष्ठमारूढः सुखेन अकृतभयो गच्छ” । सोऽपि तच्छ्रुत्वा सानन्दमाह,—“भद्र ! यदि एवं तत् किं विलम्ब्यते त्वर्य्यताम् । एषोऽहं तव पृष्ठमारूढः । तथानुष्ठिते अगाधे जलधौ गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरः प्रोवाच— “भ्रातः ! शनैः शनैः गम्यताम् । जलकल्लोलैः प्लावयते मे शरीरम्” । तत् आकर्ण्य मकरः चिन्तयामास । “असौ अगाधं जलं प्राप्तो मे वशः सञ्जातः, मत्पृष्ठगतः तिलमात्रमपि चलितुं न शक्नोति । तस्मात् कथयामि अस्य निजाभिप्रायं, येन अभीष्टदेवतास्मरणं करोति” । आह च,—“मित्र ! त्वं मया वधाय समानीतो भार्य्यावाक्येन विश्वास्य । तत् स्मर्य्यतामभीष्टदेवता” । स आह,—“भ्रातः ! किं मया तस्याः तवापि च अपकृतं ? येन मे वधोपायः चिन्तितः” । मकर आह,—“भोः ! तस्याः तावत् तव हृदयस्य अमृतमयफलरसास्वादनमृष्टस्य भक्षणे दोहदः सञ्जातः तेन एतदनुष्ठितम्” । प्रत्युत्पन्नमतिः वानर आह,—“भद्र ! यदि एवं तत् किं त्वया मम तत्र एव न व्याहृतम् । येन स्वहृदयं जम्बूकोटरे सदा एव मया सुगुप्तं कृतम् । तद् भ्रातृपत्न्या अर्पयामि । त्वया अहं शून्यहृदयोऽत्र कस्मात् आनीतः ?” तदाकर्ण्य मकरः सानन्दमाह,—“भद्र ! यदि एवं तदर्पय मे हृदयं येन सा दुष्टपत्नी तद्भक्षयित्वा अनशनादुत्तिष्ठति । अहं त्वां तमेव जम्बूपादपं प्रापयामि” । एवमुक्त्वा निवृत्य जम्बूतलमगात् । वानरोऽपि कथमपि जल्पितविविधदेवतोपचारपूजः तीरमासादितवान् । ततश्च दीर्घतरचंक्रमणेन तमेव जम्बूपादपमारूढः चिन्तयामास । “अहो ! लब्धाः तावत् प्राणाः । अथवा साधु इदमुच्यते—