पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 423, कुल 536 में से
संदर्भ में पढ़ें( ४०८ ) पञ्चतन्त्रम् ।
बन्धने क्षिपति । अथवा कश्चित् पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति''। आह च–‘‘भोः ! को भवान् ?'' स आह–‘‘अहं गङ्गदत्तो नाम मण्डूकाधिपतिः त्वत्सकाशे मैत्र्यर्थमभ्यागतः''। तच्छ्रुत्वा सर्प आह,–‘‘भो ! अश्रद्धेयमेतत् यत्तृणानां वह्निना सह सङ्गमः। उक्तञ्च–
कभी कोई सर्पमंत्रमें कुशल औषधिमें चतुर मुझे बुलाकर बंधनमें डालना चाहता है। अथवा कोई पुरुष वैरको आश्रित कर किसीके भक्षणके निमित्त मुझे बुलाता है''। बोला भी–‘‘भो ! आप कौन हैं ?''। वह बोला–‘‘मैं गंगदत्तनामक मण्डूकराजा तुम्हारे पास मित्रता करनेको आयाहूं''। यह सुनकर सर्प बोला–‘‘भो ! यह श्रद्धाके अयोग्य वचन हैं जो तृण और अग्निका समागम होना, कहा है–
यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन ।
न तत्समीपमभ्येति तत्किमेवं प्रजल्पसि ॥ २१ ॥''
जो जिसका वध्य हो वह स्वप्नमेंभी कभी उसके समीप न जाय, सो तू ऐसी जल्पना क्यों करता है ॥ २१ ॥''
' गङ्गदत्त आह–‘‘भोः सत्यमेतत् । स्वभाववैरी त्वम् अस्माकम् । परं परपरिभवात् प्राप्तोऽहं ते सकाशम् । उक्तञ्च–
गंगदत्त बोला–‘‘भो ! यह सत्य है तुम हमारे स्वभाविक वैरी हो परन्तु शत्रुओंसे तिरस्कृत होकर मैं तुम्हारे पास आया हूं। कहा है–
सर्वनाशे च सञ्जाते प्राणानामपि संशये ।
अपि शत्रुं प्रणम्यापि रक्षेत्प्राणधनानि च ॥ २२ ॥''
सर्वनाश और प्राणसंशयके उत्पन्न होनेमें शत्रुकोभी प्रणाम कर अपने प्राण और धनकी रक्षा करे ॥ २२ ॥''
सर्प आह–‘‘कथय कस्मात् ते परिभवः ।'' स आह–‘‘दायादेभ्यः''। सोऽपि आह–‘‘क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा ? तत्कथय स्वाश्रयम् ।'' तेनोक्तम्–‘‘पाषाणचयनिबद्धे कूपे''। सर्प आह–‘‘अहो ! अपदा वयं तन्नास्ति तत्र मे प्रवेशः। प्रविष्टस्य च स्थानं नास्ति। यत्र स्थितः तव दायादान् व्यापादयामि । तद्गम्यताम् । उक्तञ्च–