भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 425, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 425

(४१०) पञ्चतन्त्रम् ।

एवं विचिन्त्य तमाह-“भो गंगदत्त ! यदि एवं तदग्रे भव येन तत्र गच्छावः” । गंगदत्त आह-“भोः प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि स्थानञ्च दर्शयिष्यामि । परं त्वया अस्मत्परिजनेो रक्षणीयः । केवलं यानहं तव दर्शयिष्यामि ते एव भक्षणीयाः” इति । सर्प आह-“साम्प्रतं त्वं मे मित्रं जातं तन्न भेतव्यम्, तव वचनेन भक्षणीयाः ते दायादाः” एवमुक्त्वा बिलात् निष्क्रम्य तमालिङ्ग्य च तेनैव सह प्रस्थितः । अथ कूपमासाद्य अरघट्टघाटिकामार्गेण सर्पः तेन आत्मना स्वालयं नीतः । ततश्च गङ्गदत्तेन कृष्णसर्पं कोटरे धृत्वा दर्शिताः ते दायादाः । ते च तेन शनैः शनैः भक्षिताः। अथ मण्डूकाभावे सर्पेण अभिहितम्-“भद्र ! निःशेषिताः ते रिपवः तत् प्रयच्छ अन्यत् मे किञ्चित् भोजनं, यतोऽहं त्वया अत्र आनीतः” । गङ्गदत्त आह-“भद्र ! कृतं त्वया मित्रकृत्यम्, तत् साम्प्रतम् अनेन एव घटिकायन्त्रमार्गेण गम्यताम्” इति । सर्प आह-“भो गङ्गदत्त ! न सम्यगभिहितं त्वया । कथमहं तत्र गच्छामि । मदीयबिलदुर्गमन्येन रुद्धं भविष्यति । तस्मात् अत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीयम् प्रयच्छ नो चेत् सर्वानपि भक्षयिष्यामि” इति । तच्छ्रुत्वा गङ्गदत्तो व्याकुलमना व्यचिन्तयत् । “अहो ! किमेतन्मया कृतं सर्पमानयता तद्यदि निषेधयिष्यामि तत्सर्वानपि भक्षयिष्यति । अथवा युक्तमुच्यते-

ऐसा विचार कर उससे बोला-“भो ! गंगदत्त यदि ऐसा हो तो आगे हो जिससे वहां चले” । गंगदत्त बोला-“भो ! प्रियदर्शन ! मै तुमको सुखके उपायसे वहां ले जाऊंगा और स्थान भी दिखाऊंगा । परन्तु हमारे परिजनोंकी तुमने रक्षा करना । केवल जिनको मै दिखाऊं उन्हीको खाना” । सर्प बोला-“अव तू हमारा मित्र होगया । सो मतडरो तुम्हारे वचनसे मै तुम्हारे गोतियोंको भक्षण करूंगा” । ऐसा कह बिलसे निकल उसको आलिंगन कर उसके संग चला । तब कूपको प्राप्त हो ढेंकलीके मार्गसे सर्पको वह स्वयं अपने स्थानमें लाया । तब