पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 428, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । (४१३)
"किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक ।
स्वपक्षस्य क्षये जाते को नस्त्राता भविष्यति ॥ ३१ ॥
"हे दुष्ट रोदन करनेवाले ! क्यो रोदन करता है, हे अपने पक्षके क्षय करने वाले ! अपना पक्ष क्षय होनेपर अब कौन हमारी रक्षा करेगा ॥ ३१ ॥
तत् अद्यापि विचिन्त्यतां आत्मनो निष्क्रमणमस्य वधोपायश्च" । अथ गच्छता कालेन सकलमपि कवलितं मण्डूककुलम् । केवलमेको गङ्गादत्तः तिष्ठति । ततः प्रियदर्शनेन भणितं ,- "भो गङ्गादत्त ! बुभुक्षितोऽहं निःशेषिताः सर्वे मण्डूकाः । तदीयतां मे किञ्चित् भोजनं यतोऽहं त्वया अत्र आनीतः"। स आह,- "भो मित्र ! न त्वया अत्र विषये मया अवस्थितेन कापि चिन्ता कार्या तत् यदि मां प्रेषयसि ततोऽन्यकूपस्थान् अपि मण्डूकान् विश्वास्य अत्र आनयामि"। स आह- "मम तावत् त्वं अभक्ष्यो भ्रातृस्थाने, तत् यदि एवं करोषि तत् साम्प्रतं पितृस्थाने भवसि, तदेवं क्रियताम्" इति । सोऽपि तत् आकर्ण्य अरघट्टघाटकां आश्रित्य विविधदेवतोपकल्पितपूजोपयाचितः तस्मात् कूपात् विनिष्क्रान्तः । प्रियदर्शनोऽपि तदाकांक्षया तत्रस्थः प्रतीक्षमाणः तिष्ठति । अथ चिरात् अनागते गंगदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनीं गोधामुवाच-- "भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतः चिरपरिचितः ते गङ्गादत्तः तद्गत्वा तत्सकाशं कुत्रचिज्जलाशये अन्विष्य मम सन्देशं कथय । येन आगम्यतां एकाकिना अपि भवता द्रुततरं यदि अन्ये मण्डूका न आगच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यदि अहं तव विरुद्धं आचरामि तत् सुकृतमन्तरं मया विधृतम्" गोधा अपि तद्वचनात् गङ्गादत्तं द्रुततरमन्विष्य आह- "भद्र गङ्गादत्त ! स तव सुहृत प्रियदर्शनः तव मार्गं समीक्षमाणः तिष्ठति । तत् शीघ्रं आगम्यतामिति । अपरञ्च तेन तव विरूपकरणे सुकृतमन्तरे