पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 431, कुल 536 में से
संदर्भ में पढ़ें( ४१६ ) | पञ्चतन्त्रम् ।
यायी परिचारकोऽस्ति । अथ कदाचित् तस्य हस्तिना सह युद्ध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाता यैः पदमेकमपि चलितुं न शक्नोति तस्य अचलनात् च धूसरकः क्षुत्क्षामकण्ठो दौर्बल्यं गतः। अन्यस्मिन् अहनि तं अवोचत् -"स्वामिन्! बुभुक्षया पीडितोऽहं पदात् पदमपि चलितुं न शक्नोमि तत्कथं ते शुश्रूषां करोमि"। सिंह आह- "भो ! गच्छ अन्वेषय किञ्चित् सत्त्वं येन इमां अवस्थां गतोऽपि व्यापादयामि"। तदाकर्ण्य शृगालोऽन्वेषयन् कञ्चित्समीपवर्त्तिनं ग्रामं आसादितवान् । तत्र लम्बकर्णो नाम गर्दभः तडागोपान्ते प्रविरलदूर्वाङ्कुरान् कृच्छ्रादास्वादयन् दृष्टः । ततश्च समीपवर्त्तिना भूत्वा तेन अभिहितः-"माम!नमस्कारोऽयं मदीयः सम्भाव्यतां चिरात् दृष्टोऽसि तत् कथय तत् किमेवं दुर्बलतां गतः?" स आह,-"भो भगिनीपुत्र ! किं कथयामि, रजकोऽतिनिर्दयोऽतिभारेण मां पीडयति, घासमुष्टिमपि न प्रयच्छति केवलं दूर्वाङ्कुरान् धूलिमिश्रितान् भक्षयामि तत्कुतो मे शरीरे पुष्टिः?" शृगाल आह-"माम ! यदि एवं तदस्ति मरकतसदृशशष्पप्रायो नदीसनाथो रमणीयतरः प्रदेशः। तत्र आगत्य मया सह सुभाषितगोष्ठीसुखमनुभवन् तिष्ठ । लम्बकर्ण आह-"भो भगिनीसुत ! युक्तमुक्तं भवता परं वयं ग्राम्याः पशवोऽरण्यचारिणां बध्यास्तत् किं तेन भव्यप्रदेशेन " शृगाल आह-"माम ! मैवं वद, मद्भुजपञ्जरपरिरक्षितः स देशः । तन्नास्ति कस्यचित् अपरस्य तत्र प्रवेशः । परमनेन एव दोषेण रजककदर्थिताः तत्र तिस्रो रासभ्योऽनाथाः सन्ति । ताश्च पुष्टिमापन्ना यौवनोत्कटा इदं मां ऊचुः-‘यदि त्वं अस्माकं सत्यो मातुलः तदा किञ्चित् ग्रामान्तरं गत्वा अस्मद्योग्यं कञ्चित् पतिमानय’ । तदर्थे त्वामहं तत्र नयामि" । अथ शृगालवचनानि श्रुत्वा कामपीडितांगः तमवोचत् । "भद्र ! यदि एवं तदग्रे भव, येन आगच्छामि । अथवा साधु इदमुच्यते-