पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 437, कुल 536 में से
संदर्भ में पढ़ें( ४२२ ) पञ्चतन्त्रम् ।
कथा ४.
कस्मिंश्चित् अधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित् प्रमादादर्द्धभग्नघटकर्परतीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतितः । ततः कर्परकोट्या पाटितललाटो रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्च अपथ्यसेवनात् स प्रहारस्तस्य करालतां गतः कृच्छ्रेण नीरोग्यतां नीतः । अथ कदाचित् दुर्भिक्षपीडिते देशे स कुम्भकारः क्षुत्क्षामकण्ठः कैश्चित् राजसेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य ललाटे विकरालं प्रहारक्षतं दृष्ट्वा चिन्तयामास । "यद्वीरः पुरुषः कश्चित् अयम् । नूनं तेन ललाटपट्टे सम्मुखप्रहारः" । अतस्तं सम्मानादिभिः सर्वेषां राजपुत्राणां मध्ये विशेषप्रसादेन पश्यतिस्म । तेऽपि राजपुत्राः तस्य तं प्रसादातिरेकं पश्यन्तः परमेर्ष्याधर्मं वहन्तो राजभयात् न किञ्चित् ऊचुः । अथ अन्यस्मिन्नहनि तस्य भूपतेः वीरसम्भावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्पमानेषु गजेषु सन्नह्यमानेषु वाजिषु योधेषु प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने । "भो राजपुत्र ! किं ते नाम ? का च जातिः ? कस्मिन् संग्रामे प्रहारोऽयं ते ललाटे लग्नः" । स आह- "देव ! नायं शस्त्रप्रहारः । युधिष्ठिराभिधः कुलालोऽहं प्रकृत्या मद्गृहेऽनेककर्पराणि आसन् । अथ कदाचित् मद्यपानं कृत्वा निर्गतः प्रधावन् कर्परोपरि पतितः । तस्य प्रहारविकारोऽयं मे ललाटे एवं विकरालतां गतः" । तदाकर्ण्य राजा सत्रीडमाह- "अहो ! वञ्चितोऽहं राजपुत्रानुकारिणा अनेन कुलालेन । तत् दीयतां द्राक् एतस्य चन्द्राईः" तथानुष्ठिते कुम्भकार आह- "मा मा एवं कुरु । पश्य मे रणे हस्तलाघवम्" राजा प्राह- "भोः सर्वगुणसम्पन्नो भवान् । तथापि गम्यताम् । उक्तञ्च-