पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 453, कुल 536 में से
संदर्भ में पढ़ें( ४३८ ) पञ्चतन्त्रम् ।
यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव।
नाभूज्जारो न भर्त्ता च किं निरीक्षसि नग्निके ॥६२॥”
जैसे मेरी पंडिताई है उससे दूनी तुम्हारी है केवल जार ( उपपति ) ही नहीं परंतु भर्त्ता भी नहीं हे बसनरहिते क्या देखती है ॥ ६२ ॥ ”
वानर आह,—“कथमेतत् ?” मकरोऽब्रवीत्–
वानर बोला,—“यह कैसी कथा ?” मकर बोला–
कथा ९.
कस्मिंश्चिदधिष्ठाने हालिकदम्पती प्रतिवसतः स्म । सा च हालिकभार्या पत्युर्वृद्धभावात् सदैव अन्यचित्ता न कथञ्चिद् गृहे स्थैर्यमालम्बते, केवलं परपुरुषान् अन्वेषमाणा परिभ्रमति । अथ केनचित् परवित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च,—“सुभगे ! मृतभार्योऽहम् । त्वद्दर्शनेन स्मरपीडितश्च । तद्दीयतां मे रतिदक्षिणा,” ततः तयाभिहितं,—“भो सुभग ! यदि एवं तदस्ति मे पत्युः प्रभूतं धनं स च वृद्धत्वात् प्रचलितुमपि असमर्थः तत् । तद्धनमादाय अहमागच्छामि । येन त्वया सह अन्यत्र गत्वा यथेच्छया रतिसुखमनुभविष्यामि” । सोऽब्रवीत्,—“रोचते मह्यमपि एतत् । प्रत्यूषेऽत्र स्थाने शीघ्रमेव समागन्तव्यं येन शुभतरं किञ्चित् नगरं गत्वा त्वया सह जीवलोकः सफलीक्रियते” । सापि तथेति प्रतिज्ञाय प्रहसितवदना स्वगृहं गत्वा रात्रौ प्रसुप्ते भर्त्तरि सर्वं वित्तमादाय प्रत्यूषसमये तत कथितस्थानमुपादद्रवत् । धूर्तोऽपि तामग्रे विधाय दक्षिणां दिशमाश्रित्य सत्वरगतिः प्रस्थितः । एवं तयोः व्रजतोः योजनद्वयमात्रेण अग्रतः काचित् नदी समुपस्थिता । तां दृष्ट्वा धूर्तः चिन्तयामास, “किं अहमनया यौवनप्रान्ते वर्त्तमानया करिष्यामि । किंच कदापि अस्याः पृष्ठतः कोऽपि समेष्यति, तन्मे महान् अनर्थः स्यात् । तत् केवलमस्या वित्तं आदाय गच्छामि” इति निश्चित्य तामुवाच,—“प्रिये !