पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 458, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ४४३ )
सतां वचनमादिष्टं मदेन न करोति यः ।
स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥ ६८ ॥”
जो मदसे सत्पुरुषोके कहे वचन नहीं करता है वह घण्टा बन्धे ऊँटकी समान शीघ्र नाशको प्राप्त होता है ॥ ६८ ॥”
मकर आह,—“कथमेतत् ?” सोऽब्रवीत्-
मकर बोला,—“यह कैसे ?” वह बोला—
कथा १०.
कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स च अतीव दारिद्र्योपहतः चिन्तितवान्— “अहो ! धिक् इयं दरिद्रता अस्मद्गृहे । यतः सर्वोऽपि जनः स्वकर्मणि एव रतः तिष्ठति । अस्मदीयः पुनर्व्यापारो न अत्र अधिष्ठाने अर्हति । यतः सर्वलोकानां चिरन्तनाः चतुर्भूमिका गृहाः सन्ति । मम च नात्र, तत् किं मदीयेन रथकारत्वेन प्रयोजनम्” इति चिन्तयित्वा देशात् निष्क्रान्तः । यावत् किञ्चित् वनं गच्छति तावत् गहराकारवनगहनमध्ये सूर्य्यास्तमनवेलायां स्वयूथाद् भ्रष्टां प्रसववेदनया पीड्यमानां उष्ट्रीमपश्यत्, स च दासेरकयुक्तामुष्ट्रीं गृहीत्वा स्वस्थानाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रीकां बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः कृते पल्लवानयनार्थं पर्वतैकदेशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि छित्वा शिरसि समारोप्य तस्या अग्रे निचिक्षेप । तया च तानि शनैः शनैः भक्षितानि । पश्चात् पल्लवभक्षणप्रभावादहर्निशं पीवरतनुः उष्ट्री सञ्जाता । सोऽपि दासेरको महान् उष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा स्वकुटुम्बं परिपालयति । अथ रथकारेण वल्लभत्वात् दासेरकग्रीवायां महती घण्टा प्रतिबद्धा । पश्चात् रथकारो व्यचिन्तयत,—“अहो ! किमन्यैः दुष्कृतकर्मभिः यावत् मम