पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 459, कुल 536 में से
संदर्भ में पढ़ें( ४४४ ) पञ्चतन्त्रम् ।
एतस्मादेव उष्ट्रीपरिपालनात् अस्य कुटुम्बस्य भव्यं सञ्जातम् । तत् किं अन्येन व्यापारेण" । एवं विचिन्त्य गृहमागत्य प्रियामाह,—"भद्रे ! समीचीनोऽयं व्यापारः तव सम्मतिःचेत् कुतोऽपि धनिकात् किंचित द्रव्यमादाय मया गुर्जूरदेशे गन्तव्यं करभग्रहणाय । तावत् त्वया एतौ यत्नेन रक्षणीयौ । यावत् अहमपरामूष्ट्रीं गृहीत्वा समागच्छामि" । ततश्च गुर्जरदेशं गत्वा उष्ट्रीं गृहीत्वा स्वगृहं आगतः । किं बहुना, तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः । ततस्तेन महदुष्ट्रयूथं कृत्वा रक्षापुरुषो धृतः । तस्य वर्ष प्रति वृत्त्या करभं एकं प्रयच्छति । अन्यच्च अहर्निशं दुग्धपानं तस्य निरूपितम् । एवं रथकारोऽपि नित्यमेव उष्ट्रीकरभव्यापारं कुर्वन् सुखेन तिष्ठति । अथ ते दासेरका अधिष्ठानोपवने आहारार्थं गच्छन्ति । कोमलवलीः यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तनसमये मन्दं मन्दं लीलया गृहं आगच्छन्ति । स च पूर्वदासेरको मदातिरेकात् पृष्ठे आगत्य मिलति । ततस्तैः कलभैः अभिहितः—"अहो ! मन्दमतिः अयं दासेरको यथा यूथाद्भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन् आगच्छति । यदि कस्यापि दुष्टसत्त्वस्य मुखे पतिष्यति, तन्नूनं मृत्युमवाप्स्यति" । अथ तस्य तद्वनं गाहमानस्य कश्चित् सिंहो घण्टारवं आकर्ण्य समायातः । यावत् अवलोकयति, तावत् उष्ट्रीदासेरकाणां यूथं गच्छति। एकस्तु पुनः पृष्ठे क्रीडां कुर्वन् वल्लरीश्चरन् यावत् तिष्ठति, तावत् अन्ये दासेरकाः पानीयं पीत्वा स्वगृहे गताः । सोऽपि वनात् निष्क्रम्य यावद्दिशोऽवलोकयति, तावत् न कश्चित् मार्गं पश्यति वेत्ति च । यूथाद्भ्रष्टो मन्दं मन्दं बृहच्छब्दं कुर्वन् यावत् कियद्दूरं गच्छति, तावत् तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतोऽग्रे व्यवस्थितः । ततः यावत् उष्ट्रः समीपं आगतः तावत् सिंहेन लम्पयित्वा ग्रीवायां गृहीतो मारितश्च । अतोऽहं ब्रवीमि—