भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 462, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 462

भाषाटीकासमेतम्। ( ४४७ )

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ७२ ॥”

जो उपकारियोंमें साधु है उसके साधुतामें क्या गुण है ?-जो अपकारियोंपर कृपा करे महात्माओंने उसेही साधु कहा है ॥ ७२ ॥”

तदाकर्ण्य वानरः प्राह,-“भद्र! यदि एवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तञ्च-

यह सुनकर बानर बोला-“भद्र ! जो ऐसा है तो जाकर उसके संग युद्ध कर-

हतस्त्वं प्राप्स्यसि स्वर्गं जीवन् गृहमथो यशः । युद्ध्यमानस्य ते भावि गुणद्वयमनुत्तमम् ॥ ७३ ॥

मरनेसे स्वर्गको प्राप्त होगा, जीनेसे गृह और यशको प्राप्त होगा, युद्ध करनेसे तुझको दोनो प्रकार श्रेष्ठ गुण प्राप्त होंगे ॥ ७३ ॥

उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ॥७४॥

उत्तमको प्रणाम करके, शूरको भेद करके, नीचको कुछ देकर युक्त करे और समान बलवालेसे युद्ध करै ॥ ७४ ॥”

मकरः प्राह,-“कथमेतत् ?” सोऽब्रवीत्,-

मकर बोला,-“यह कैसे ?” वह बोला-

कथा ११.

आसीत् कस्मिंश्चित् वनोद्देशे महाचतुरको नाम शृगालः। तेन कदाचित् अरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात् परिभ्रमति परं कठिनां त्वचं भेत्तुं न शक्नोति । अथ अत्र अवसरे इतश्चेतश्च विचरन् कश्चित् सिंहस्तत्रैव प्रदेशे समाययौ । अथ सिंहं समागतं दृष्ट्वा स क्षितितलविन्यस्त-मौलिमण्डलः संयोजितकरयुगलः सविनयमुवाच,-“स्वा-मिन् ! त्वदीयोऽहं लागुडिकः स्थितः त्वदर्थे गजमिमं रक्ष्या-मि । तत् एनं भक्षयतु स्वामी” । तं प्रणतं दृष्ट्वा सिंहः-