पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 475, कुल 536 में से
संदर्भ में पढ़ें( ४६० ) पञ्चतन्त्रम् ।
एवं संस्तुत्य ततः प्रधानक्षपणकम् आसाद्य क्षितिनिहि- तजानुचरणो "नमोऽस्तु वन्दे" इति उच्चार्य लब्धधर्मवृ- द्धयाशीर्वादः सुखमालिव्रतानुग्रहलब्धव्रतादेश उत्तरीयनिब- द्धग्रन्थिः सप्रश्रयम् इदमाह,- "भगवन् ! अद्य अभ्यवरण- क्रिया समस्तमुनिसमेतेन अस्मद्गृहे कर्त्तव्या" स आह,- "भोः श्रावक ! धर्मज्ञोऽपि किमेवं वदसि किं वयं ब्राह्मणस- मानाः । यत आमन्त्रणं करोषि । वयं सदैव तत्कालपरिच- र्य्यया भ्रमन्तो भक्तिभाजं श्रावकम् अवलोक्य तस्य गृहे गच्छामः तेन कृच्छ्रादभ्यर्थिताः तद्गृहे प्राणधारणमात्राम् अशनक्रियां कुर्मः । तत् गम्यतां नैवं भूयोऽपि वाच्यम्" । तच्छ्रुत्वा नापित आह,-"भगवन् ! वेद्मि अहं युष्मद्धर्मम् परं भवतो बहुश्रावका आह्वयन्ति, साम्प्रतं पुनः पुस्तका- च्छादनयोग्यानि कर्पटानि बहुमूल्यानि प्रगुणीकृतानि तथा पुस्तकानां लेखनाथ लेखकानाञ्च वित्तं सञ्चितम् आस्ते, तत्सर्वथा कालोचितं कार्य्यम्" । ततो नापितोऽपि स्वगृहं गतः तत्र च गत्वा खादिरमयं लगुडं सज्जीकृत्य कपाटयुगलं द्वारे समाधाय सार्द्धप्रहरैकसमये भूयोऽपि विहारद्वारम् आश्रित्य सर्वान् क्रमेण निष्क्रामतो गुरुप्रार्थनया स्वगृहम् आनयत, तेऽपि सर्वे कर्पटवित्तलोभेन भक्तियुक्तानपि परि- चितश्रावकान् परित्यज्य प्रहृष्टमनस्तस्य पृष्ठतो ययुः । अथवा साधु इदमुच्यते-
इस प्रकार स्तुतिकर प्रधान क्षपणकके पास जाकर पृथ्वीमें जंघाचरणको छुवाय; "आपको नमस्कार है" ऐसा उच्चारण कर धर्मवृद्धिका आशीर्वाद ग्रहण कर, प्रधान क्षपणकके अनुग्रहसे व्रतदीक्षाको प्राप्त हो गलबस्त्रके निमित्त उत्तरीयकी गांठ बांधे नम्रतापूर्वक इस प्रकार बोला-"आज भोजनकी क्रिया सब मुनियोंके साथ मेरे घर करनी चाहिये" । वह बोला-"भो श्रावक ! (धर्म सुने हुए) धर्मका जाननेवाला होकरभी क्यों ऐसा कहता है । क्या हम ब्राह्मणकी समान हैं, जो निमंत्रण करता है । हम तो सदाही तत्कालकी परिचर्यासे भ्रमते