पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 492, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ४७७ )
“उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ४१ ॥
“उत्सव, व्यसनप्राप्ति, दुर्भिक्ष, शत्रुसंकट, राजद्वार और श्मशानमें जो स्थित हो वह बंधु है ॥ ४१ ॥
तत् अहो ! अयम् अस्मदीयो बान्धवः” । ततः कश्चित् तस्य ग्रीवायां लगति । कोऽपि पादौ प्रक्षालयति । अथ यावत् ते पण्डिताः दिशाम् अवलोकनं कुर्वन्ति तावत् कश्चित् उष्ट्रो दृष्टः । तैश्च उक्तम्,-“एतत् किम् ?” तावत् तृतीयेन पुस्तकम् उद्घाट्य उक्तम्,-“धर्मस्य त्वरिता गतिः” “एष धर्मस्तावत्” । चतुर्थेन उक्तम्,-“इष्टं धर्मेण योजयेत् ।” अथ तैश्च रासभ उष्ट्रग्रीवायां बद्धः केनचित् रजकस्य अग्रे कथितम् । यावत् रजकः तेषां मूर्खपण्डितानां प्रहारकरणाय समायातः तावत् ते प्रनष्टाः यावदग्रे किञ्चित् स्तोकं मार्ग यान्ति तावत् काचित् नदी समासादिता । तत् तस्या जलमध्ये पलाशपत्रम् आयातं दृष्ट्वा पण्डितेन एकेन उक्तम्-
सो अहो यह हमारा बंधु है” । सो कोई उसकी ग्रीवामें लगता है कोई चरण धोता है । तब ज्योंहीं वे पंडित दिशाओंकी ओर देखते हैं तबतक कोई ऊंट देखा । उन्होंने कहा-“यह क्या है ?” तब तीसरेने पुस्तक खोलकर कहा-“धर्मकी शीघ्र गति है” । “यह धर्म है” चौथेने कहा-“इष्टको धर्मके साथ संयुक्त करना चाहिये” । तब उन्होंने गधेको ऊंटकी गरदनमें बांधा । तब यह किसीने धोबीके आगे कहा सो जबतक वह धोबी उन मूर्ख पंडितोंको प्रहार करनेको आया । तबतक वे पलायन करगये । जबतक आगे किसी लघु मार्गको प्राप्त हुए कि तबतक कोई नदी मिली तब उसके जलमें ढाकका पत्र आया देखकर एक पंडितने कहा-
“आगमिष्यति यत्पत्रं तदस्मांस्तारयिष्यति ।”
“जो यह पत्र आ रहा है सो हमको तार देगा ।”
एतत् कथयित्वा तत्पत्रस्य उपरि पतितो यावत् नद्या नीयते तावत् तं नीयमानम् अवलोक्य अन्येन पण्डितेन केशान्तं गृहीत्वा उक्तम्-