पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 495, कुल 536 में से
संदर्भ में पढ़ें( ४८० ) पञ्चतन्त्रम् ।
कथा ६.
कस्मिंश्चित् जलाशये शतबुद्धिः सहस्रबुद्धिश्च द्वौ मत्स्यौ निवसतः स्म। अथ तयोः एकबुद्धिर्नाम मण्डूको मित्रतां गतः। एवं ते त्रयोऽपि जलतीरे कञ्चित् कालं वेलायां सुभाषितसुखम् अनुभूय भूयोऽपि सलिलं प्रविशन्ति। अथ कदाचित् तेषां गोष्ठीगतानां जालहस्तधीवराः प्रभूतैः मत्स्यैः व्यापादितैः मस्तके विधृतैः अस्तमनवेलायां तस्मिन् जलाशये समायाताः। ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः—“अहो ! बहुमत्स्योऽयं ह्रदो दृश्यते स्वल्पसलिलश्च । तत्प्रभाते अत्र आगमिष्यामः”। एवमुक्त्वा स्वगृहं गताः । मत्स्याश्च विषण्णवदना मिथो । मन्त्रं चक्रुः ततो मण्डूक आह—“भोः ! शतबुद्धे ! श्रुतं धीवरोक्तं भवता ? तत् किमत्र युज्यते कर्त्तुम् ! पलायनम् अवष्टम्भो वा ? यत्कर्त्तुं युक्तं भवति तत् आदिश्यताम् अद्य ?” तत् श्रुत्वा सहस्रबुद्धिः प्रहस्य आह,—“भो मित्र ! मा भैषीर्यतो वचनस्मरणमात्रादेव भयं न कार्य्यम् । न भेतव्यम् । उक्तञ्च—
किसी सरोवरमें शतबुद्धि और सहस्रबुद्धि नामके दो मच्छ रहते थे । उनका एकबुद्धिनाम मेडक मित्र होगया । इस प्रकार वे तीनों ही जलके किनारे किसी कालतक सुभाषित गोष्ठीका सुख अनुभव कर फिरभी जलमें प्रवेश कर जाते । कभी गोष्ठीमें प्राप्त होनेपर जाल हाथमें लिये धीमर बहुतसी मच्छियोंको मारकर मस्तकपर धरे अस्तके 'समय उस सरोवरके निकट प्राप्त हुए । तब सरोवरको देख परस्पर कहने लगे—“अहो ! यह हृद बहुत मछलियोंसे युक्त थोडे जलवाला है । सो प्रातःकाल यहां आवेंगे”। ऐसा कह अपने घर गये । तब मत्स्य व्याकुल हो परस्पर मंत्रणा करने लगे । तब मेडक बोला—“भो शतबुद्धि ! सुना तुमने धीमरोंका वचन ? सो अब क्या करना उचित है ? पलायन करना वा गुप्त होकर यहां रहना ? । जो करना उचित समझो वह अभी कहो?” यह सुन सहस्रबुद्धि हँसकर बोला,--“मित्र ! डरो मत, वचनके स्मरण मात्रसेही भय न करना चाहिये, मत डरो । कहा है कि—