भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 498, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 498

भाषाटीकासमेतम् । ( ४८३ )

शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः ।
एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले ॥ ५१ ॥”

यह शतबुद्धि शिरपर है और यह सहस्रबुद्धि लटकता है हे भद्रे ! मैं एक-बुद्धि निर्मल जलमें क्रीडा करता हूं ॥ ५१ ॥”

अतोऽहं ब्रवीमि-“न एकान्ते बुद्धिरपि प्रमाणम्” । सुवर्णसिद्धिः आह-“यद्यपि एतदस्ति तथापि मित्रवचनम् अनुलंघनीयम् । परं किं क्रियते । निवारितोऽपि मया न स्थितोऽतिलौल्यात् विद्याहंकाराच्च । अथवा साधु इदमुच्यते,-

इससे मैं कहता हूं-“निरी बुद्धिकाही प्रमाण नहीं है” सुवर्णसिद्धि बोला-“यद्यपि ऐसा है तथापि मित्रके वचन उल्लंघन करने नहीं चाहिये परन्तु क्या कियाजाय, मेरे निवारण करनेपरभी तौ चञ्चलतासे न ठहरे तथा विद्याका अहङ्कार किया । अथवा यह अच्छा कहा है-

साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः ।
अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीतलक्षणम् ॥ ५२ ॥”

धन्य मामा ! धन्य ! मेरे कहनेपरभी गीतप्रिय होनेके कारण आप स्थित न हुए तिससे यह अपूर्व मणि बावकर गीतका पुरस्कार प्राप्त किया ॥ ५२ ॥”

चक्रधरः प्राह,-“कथमेतत् ?” सोऽब्रवीत-
चक्रधर बोला-“यह कैसे ?” सुवर्णसिद्धि बोला-

कथा ७.

कस्मिंश्चित् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसतिस्म । स सदैव रजकगृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति । ततः प्रत्यूषे बन्धनभयात् स्वयमेव रजकगृहम् आयाति । रजकोऽपि ततस्तं बन्धने न नियुन्क्ति । अथ तस्य रात्रौ पर्यटतः क्षेत्राणि कदाचित् शृगालेन सह मैत्री सञ्जाता । स च पीवरत्वात् वृतिभंगं कृत्वा कर्कटिकाक्षेत्रे शृगालसहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिकाभक्षणं कृत्वा प्रत्यहं प्रत्यूषे स्वस्थानं व्रजतः । अथ कदाचित् तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शृगालोऽभिहितः-