भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 502, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 502

भाषाटीकासमेतम्। ( ४८७ )

“धन्य मामा ! मेरे कहे हुए गीतसेभी आप यथेष्ट स्थित न हुए यह अपूर्व मणि बांध ली भला गीतका लक्षण प्राप्त हुआ ॥ ६० ॥”

तद्भवानपि मया वार्यमाणोऽपि न स्थितः ” । तत् श्रुत्वा चक्रधर आह,—“भो मित्र ! सत्यमेतत् । अथवा साधु इदमुच्यते—

इसी कारण तुमभी मेरे निवारण करनेसे स्थित न हुए”। यह सुन चक्रधर बोला,—"भो मित्र ! यह सत्य है । अथवा यह अच्छा कहा है—

यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थरकौलिकः ॥ ६१ ॥”

जिसको स्वयं बुद्धि नहीं और मित्रका कहा नहीं करता है वह मन्थर कौलिककी समान निधनको प्राप्त होता है ॥ ६१ ॥”

सुवर्णसिद्धिः आह—“कथमेतत् ?” सोऽब्रवीत्—
सुवर्णसिद्धि बोला—“यह कैसे ?” वह बोला—

कथा ८.

कस्मिंश्चित् अधिष्ठाने मन्थरो नाम कौलिकः प्रतिवसति स्म, तस्य कदाचित् पट्टकर्माणि कुर्वतः सर्वपट्टकर्मकाष्ठानि भग्नानि । ततः स कुठारम् आदाय वने काष्ठार्थं गतः। स च समुद्रतटं यावत् भ्रमन् प्रयात:, ततश्च तत्र शिंशपापादपस्तेन दृष्टः। ततः चिन्तितवान् “महान् अयं वृक्षो दृश्यते । तदनेन कर्त्तितेन प्रभूतानि पट्टकर्मोपकरणानि भविष्यन्ति”। इति अवधार्य्य तस्योपरि कुठारमुत्क्षिप्तवान् । अथ तत्र वृक्षे कश्चित् व्यन्तरः समाश्रित आसीत् । अथ तेन अभिहितं—“भो ! मदाश्रयोऽयं पादपः, सर्वथा रक्षणीयो, यतोऽहम् अत्र महासौख्येन तिष्ठामि समुद्रकल्लोलस्पर्शनात् शीतवायुना आप्यायितः”। कौलिक आह—“भोः! किम‍हं करोमि, दारुसामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते । तस्मात् अन्यत्र शीघ्रं गम्यताम् । अहम् एनं कर्त्तयिष्यामि”। व्यन्तर आह—“भोः ! तुष्टः तव अहम् । तत् प्रार्थ्यताम् अ-