भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 510, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 510

भाषाटीकासमेतम् । ( ४९५ )

भक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानरयूथाधिपो यः स औशनसबार्हस्पत्यचाणक्यमतवित्तदनुष्ठाता च तान् सर्वानपि अध्यापयति स्म । अथ तस्मिन् राजगृहे लघुकुमारवाहनयोग्यं मेषयूथमस्ति, तन्मध्यात् एको जिह्वालौल्यात् अहर्निशं निःशंकं महानसे प्रविश्य यत् पश्यति तत्सर्वं भक्षयति ते च सूपकारा यत्किञ्चित् काष्ठं मृण्मयं भाजनं कांस्यपात्रं ताम्रपात्रं वा पश्यंति तेनाशु ताडयंति सोऽपि वानरयूथपः तद्दृष्ट्वा व्यचिन्तयत,—"अहो मेषसूपकारकलहोऽयं वानराणां क्षयाय भविष्यति यतोऽन्नास्वादलम्पटायं मेषो महाकोपाश्च सूपकारा यथासन्नवस्तुना प्रहरन्ति । तद् यदि वस्तुनोऽभावात् कदाचित् उल्मुकेन ताडयिष्यन्ति तदा ऊर्णाप्रचुरोऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलिष्यति । तत् दह्यमानः पुनः अश्वकुट्यां समीपवर्त्तिन्यां प्रवेक्ष्यति, सापि तृणप्राचुर्यात् ज्वलिष्यति । ततोऽश्वा वह्निदाहम् अवाप्स्यन्ति । शालिहोत्रेण पुनः एतदुक्तम्, यत् वानरवसया अश्वानां वह्निदाहदोषः प्रशाम्यति तत् नूनम् एतेन भाव्यम् अत्र निश्चयः । एवं निश्चित्य सर्वान् वानरान् आहूय रहसि प्रोवाच—'यत् ।

किसी नगरमें चन्द्रनाम राजा रहता था । उसके पुत्र सदा वानरोंसे खेल करते । वानरयूथ नित्यही अनेक भोजन भक्ष्यादिसे पुष्ट किये जाते । तब वानरयूथका अधिपति जो था वह भार्गव वृहस्पति चाणक्यका मत जाननेवाला तथा अनुष्ठान करनेवाला उन सबको अध्ययन कराता, उस राजघरमे लघु कुमारके वाहन योग्य मेषोंका यूथ था, उनके बीचमे एक मेष जिन्हाकी चञ्चलतासे रातदिन निर्भय रसोईमे प्रवेशकर जो देखता वह सब खाजाता । वे रसोई करनेवाले जो कुछ काष्ठ सुवर्णमय कासी वा तांबेका पात्र जो प.ते उससे शीघ्र उसको ताडन करते । वहभी वानर यूथ यह देखकर विचारने लगा । "अहो यह मेष और सूपकारोंका क्लेश वानरोंके क्षयके निमित्त होगा । जो कि अन्नके स्वादमें लम्पट यह मेष है और महाक्रोधी यह रसोईये निकट रक्खीहुई वस्तुमे प्रहार करते हैं । सो यदि वस्तुके