भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 52, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 52

भाषाटीकासमेतम् । ( ३७ )

तत् पौरुषावष्टम्भं कृत्वा त्वं तावत् अत्र एव प्रतिपालय-यावदहमेतत् शब्दस्वरूपं ज्ञात्वा आगच्छामि । ततः पश्चात् यथोचितं कार्य्यम्” इति । पिङ्गलक आह-“किं तत्र भवान् गन्तुमुत्सहते ?”। स आह-“किं स्वाम्यादेशात्सद्भृत्यस्य कृत्याकृत्यमस्ति उक्तञ्च-

सो पुरुषार्थका अवलम्बन कर तुम तबतक यहां रहो जबतक मैं इस शब्दस्वरूपको जानकर आऊ, तब पीछे जैसा उचित हो सो करना”। पिंगलक बोला-“क्या आप वहां जानेकी इच्छा करते हो ?”। वह बोला-“स्वामीकी आज्ञासे भृत्यको कृत्यका और अकृत्यका विचार क्या है ? । कहाहै कि-

स्वाम्यादेशात्सुभृत्यस्य न भीः सञ्जायते क्वचित् । प्रविशेन्मुखमाहेयं दुस्तरं वा महार्णवम् ॥ १२० ॥

स्वामीकी आज्ञासे सुभृत्यको कहींभी कुछ भय नहीं होताहै, सर्पके मुखमें प्रवेश करजाय वा दुस्तर महासागर तर जाय ॥ १२० ॥

तथाच- तैसाही-

स्वाम्यादिष्टस्तु यो भृत्यः समं विषममेव च । मन्यते न स सन्धाय्यों भूभुजा भूतिमिच्छता ॥१२१॥”

जो भृत्य स्वामीकी आज्ञाको समवा विषम नहीं मानता है ऐश्वर्यकी इच्छाकरनेवाले राजाओंको सदा उसको अपने समीपमें रखना उचित है ॥ १२१ ॥”

पिङ्गलक आह-“भद्र ! यदि एवं तत् गच्छ शिवास्ते पन्थानः सन्तु” इति । दमनकोऽपि तं प्रणम्य सञ्जीवकशब्दानुसारी प्रतस्थे । अथ दमनके गते भयव्याकुलमनाः पिङ्गलकः चिन्तयामास । “अहो ! न शोभनं कृतं मया, यत् तस्य विश्वासं गत्वा आत्माभिप्रायो निवेदितः । कदाचित दमनकोऽयमुभयवेतनॊ भूत्वा ममोपरि दुष्टबुद्धिः स्यात् भ्रष्टाधिकारत्वात् । उक्तञ्च-

पिंगलक बोला, “भद्र ! जो ऐसा है तो तेरे मार्ग मगलकारी हो” दमनक भी उसको प्रणाम करके सञ्जीवकके शब्दका अनुसरण कर चला । तब दमनकके