भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 84, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 84

भाषाटीकासमेतम् ! ( ६९ )

सा अब्रवीत्—"यदि एवं तर्हि कथय कथं दृढबन्धनबद्धा सती तत्र गच्छामि ? सन्निहितश्चायं पापात्मा मत्पतिः"। नापिती आह—"सखि ! मदविह्वलोऽयं सूर्य्यकरस्पृष्टः प्रबोधं यास्यति । तदहं त्वामुन्मोचयामि । मामात्मस्थाने बद्धा द्रुततरं देवदत्तं सम्भाव्य आगच्छ" । सा अब्रवीत्—"एवमस्तु" इति । तदनु सा नापिती तां स्वसखीं बन्धनाद्विमोच्य तस्याः स्थाने यथापूर्वमात्मानं बद्ध्वा तां देवदत्तसकाशे सङ्केतस्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित्क्षणे समुत्थाय किञ्चिद्गतकोपो विमदस्तामाह,—"हे परुषवादिनि ! यदि अद्यप्रभृति गृहान्निष्क्रमणं न करोषि न च परुषं वदसि ततः त्वामुन्मोचयामि" । नापिती अपि स्वरभेदभयात् यावन्न किञ्चित् ऊचे तावत् सोऽपि भूयोभूयस्तां तदेव आह । अथ सा यावत् प्रत्युत्तरं किमपि न ददौ तावत् स प्रकुपितस्तीक्ष्णशस्त्रमादाय नासिकामच्छिनत् आह च—"रे पुंश्चलि ! तिष्ठ इदानीं न त्वां भूयस्तोषयिष्यामि" इति जल्पन् पुनरपि निद्रावशमगमत् । देवशर्मा अपि वित्तनाशात् क्षुत्क्षामकण्ठो नष्टनिद्रस्तत्सर्वं स्त्रीचरित्रमपश्यत् । सापि कौलिकभार्य्या यथेच्छया देवदत्तेन सह सुरतसुखमनुभूय कस्मिंश्चित् क्षणे स्वगृहमागत्य तां नापितीमिदमाह—"अयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः?" । नापिती आह—"शिवं नासिकया विना शेषस्य शरीरस्य । तद् द्रुतं मां मोचय बन्धनात्, यावन्नायं मां पश्यति येन स्वगृहं गच्छामि" । तथा अनुष्ठिते भूयोऽपि कौलिक उत्थाय तामाह—"पुंश्चलि ! किमद्यापि न वदसि । किं भूयोऽप्यतो दुष्टतरं निग्रहं कर्णच्छेदेन करोमि" । अथ सा सकोपं साक्षेपमिदमाह—"धिक् धिक् महामूढ ! को मां महासतीं धर्षयितुं व्यंगयितुं वा समर्थः । तत् शृण्वन्तु सर्वेऽपि लोकपालाः ।