भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 98, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 98

भाषाटीकासमेतम्। ( ८३ )

नम्। तदद्यैव तया सह समागमः क्रियताम्” इति । कौलिक आह- “वयस्य ! यत्र कन्यान्तःपुरे वायुं मुक्त्वा न अन्यस्य प्रवेशोऽस्ति तत्र रक्षापुरुषाधिष्ठिते कथं मम तया सह समागमः। तत् किं मां असत्यवचनेन विडम्बयसि ?” । रथकार आह--“मित्र ! पश्य मे बुद्धिवलम्” । एवमभिधाय तत्क्षणात् कीलसञ्चारिणं वैनतेयं बाहुयुगलं वायुजवृक्षदारुणा शंखचक्रगदापद्मान्वितं सकिरीटकौस्तुभं अघटयत् । ततः तस्मिन् कौलिकं समारोप्य विष्णुचिह्नितं कृत्वा कीलसञ्चरणविज्ञानञ्च दर्शयित्वा प्रोवाच--“वयस्य ! अनेन विष्णुरूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्तभूमिकप्रासादप्रान्तगतां मुग्धस्वभावां त्वां वासुदेवं मन्यमानां स्वकीयमिथ्यावक्रोक्तिभिः रञ्जयित्वा वात्स्यायनोक्तविधिना भज”। कौलिकोऽपि तदाकर्ण्य तथारूपः तत्र गत्वा तामाह- “राजपुत्रि ! सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात् सानुरागो लक्ष्मीं विहाय एव आगतः। तत् क्रियतां मया सह समागमः” इति । सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतमवलोक्य सविस्मया शयनादुत्थाय प्रोवाच- “भगवन् ! अहं मानुषी कीटिकाऽशुचिः भगवान् त्रैलोक्यपावनो वन्दनीयश्च । तत्कथमेतद्युज्यते ?” । कौलिक आह- “सुभगे ! सत्यमभिहितं भवत्या परं किन्तु राधा नाम मे भार्या गोपकुलप्रसूता प्रथममासीत् सा त्वं अत्र अवतीर्णा । तेन अहमत्र आयातः” । इति उक्ता सा प्राह- “भगवन् ! यदि एवं तत् मे तातं प्रार्थय सोऽपि अविकल्पं मां तुभ्यं प्रयच्छति” । कौलिक आह--“सुभगे ! न अहं दर्शनपथं मानुषाणां गच्छामि । किं पुनरालापकरणम्, त्वं गान्धर्वेण विवाहेन आत्मानं प्रयच्छ । नो चेत् शापं दत्त्वा सान्वयं ते पितरं भस्मसात् करिष्यामि” इति। एवमभिधाय गरुडादवतीर्य सव्ये पाणौ गृहीत्वा, तां सभयां सल