पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 129, कुल 263 में से
संदर्भ में पढ़ें( १०७ )
छत्रम्—आतपत्रं प्रतिगृह्णाति, स्वीकरोति, बृहस्पतेश्छदिरसी-त्यादिमन्त्रेण ।
मन्त्रार्थः ( गौतमः गायत्री छत्रं तद्ग्रहणे )—हे छत्र ! त्वं बृहस्पतेः—देवगुरोः, छर्दिः—घर्मादिद्वारकम् असि । अतएव पाप्मनः—पापात्, माम्, अन्तर्धेहि—अन्तर्हितं कुरु । तेजसः तथा यशसः मां, मा अन्तर्धेहि—न अन्तर्हितं कुरु ।
प्रतिष्ठे स्थो विश्वतो मा पातमित्युपानहौ प्रतिमुञ्चते । २५
“प्रतिष्ठे स्थ” इत्यादिना मन्त्रेण उपानहौ—पादत्राणे प्रतिमुञ्चते—धारयति ।
मन्त्रार्थः (प्रजापतिः यजुः धर्मः उपानह ग्रहणे)—हे उपानहौ ! युवां, प्रतिष्ठे—उपक्रान्तगतिक्रियाया अत्यागः प्रतिष्ठा, तन्निमित्तत्वात् युवामपि प्रतिष्ठे, स्थः—भवथः । अतः मा—मां, विश्वतः—सर्वतः, पातं—रक्षतम् ।
विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि सर्वत
इति वैणवं दण्डमादत्ते । २६
विश्वाभ्य इत्यादि मन्त्रेण वैणवं—वंशमयं, दण्डं—यष्टिम्, आदत्ते—गृह्णाति ।
मन्त्रार्थः ( याज्ञवल्क्यः यजुः दण्डः तद्ग्रहणे )—हे दण्ड ! त्वं, विश्वाभ्यः—सर्वाभ्यः, नाष्ट्राभ्यः—नाशकारिणीभ्यः सर्पराक्षसीप्रभृतिभ्यः, सर्वतः—सर्वस्मिन् स्थाने सर्वतोभावेन वा परिपाहि—रक्ष ।
दन्तप्रक्षालनादीनि नित्यमपि वासश्छत्रोपानह-
श्चापूर्वाणि चेन्मन्त्रः । २७
दन्तप्रक्षालनादीनि—दन्तप्रक्षालनम् आदौ येषां पुष्पादीनां तानि दन्तप्रक्षालनोद्वर्त्तनानुलेपनानि इत्यर्थः, तानि नित्यं—प्रत्यहं मन्त्रपूर्वकाणि । वासश्छत्रोपानहः—वासः वस्त्रम्, छत्रम्, उपानहौ चकारात् दण्डोऽपि अपूर्वाणि—नूतनानि चेत् तद्ग्रहणे मन्त्रः भवति, न पुरातनेषु ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे षष्ठी कण्डिका ॥