भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 205, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 205

( १८३ )

ततः 'पूषा गा" इत्यादिमन्त्रेण पौष्णस्य—पूषा सूर्य देवता अस्येति पौष्णः चरुः तस्य, अत्र अवयवलक्षणा षष्ठी 'जुहोति सकृदेव, होमसंख्या-नभिधानात् । श्रपणानुपदेशादत्र चरुः सिद्ध एवोपादीयते । अयञ्च पौष्णश्चरुः पिष्टमयो भवति “तस्माद् यं पूष्णे चरुं कुर्वन्ति प्रपिष्टाना-मेव कुर्वन्ति" इति श्रुतेः । ततः पायसपिष्टचरुभ्यां स्विष्टकृद्धोमः । ततः भूरादिनवाहुतयः । ततः संस्रवप्राशनादि दक्षिणादानान्तं कुर्यात् ।

मन्त्रार्थः (परमेष्ठी, गायत्री, पूषा, आज्यहोमे)— पूषा—सूर्यः, नः—अस्माकं, गाः—धेनूः, इन्द्रियाणि च अन्वेतु—अनुसरतु रक्षतु इत्यर्थः । पूषा—अर्वतः—अश्वान्, रक्षतु—पालयतु । पूषा नः—अस्माकं, वाजम्—अन्नं, सनोतु—ददातु ।

रुद्राञ्जपित्वैकवर्णं द्विवर्णं वा यो वा यूथं छादयति यं वा यूथं छादयेद्रोहितो वैव स्यात् सर्वाङ्गैरुपतो जीववत्सायाः पयस्विन्याः पुत्रो यूथे च रूपस्वितमः स्यात्तमलंकृत्य यूथे मुख्याश्चतस्रो वत्सतर्र्यस्ताश्चालंकृत्य एतं युवानं पतिं वो ददामि तेन क्रीडन्तीश्चरथ प्रियेण । मा नः साप्तजनुषाऽसुभगा रायस्पोषेण समिषा मदेमेत्येतयैवोत्सृजेरन् । ६

ततः रुद्रान्—“नमस्ते रुद्रमन्यव” इत्यध्यायोक्तान् सर्वान् मन्त्रान् जपित्वा— रुद्रपूजापूर्वकं जपधर्मेण पठित्वा, एकवर्णम्— एक एव शुक्लादिर्वर्णः—रूपं यस्य स एकवर्णः, सर्वशुक्लः—सर्वकृष्णः सर्वरोहितो वा इत्यर्थः । तम्, वा—अथवा द्विवर्णम्—द्वौ वर्णौ यस्य स द्विवर्णस्तं, पुनः किम्भूतम् ? यो वा वृषः यूथं—कृत्स्नं वर्गं छादयति—स्वपरिमाणेण अधःकरोति, यं वा वृषं यूथं—वर्गः छादयेत्—लघुत्त्वेन अधः कुर्यात् अथवा प्रीत्या परिवार्य वर्त्तते तम्, पुनश्च यः—रोहितः— रक्तवर्णः

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित) · पृष्ठ 205, कुल 263 में से · BharatKosha