भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 204, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 204

( १६२ )

अयं वृषोत्सर्गः कार्त्तिक्यां—कृत्तिकानक्षत्रयुक्तायां पौर्णमास्यां कार्त्तिकपूर्णिमायामित्यर्थः। तथा आश्वयुजस्य—आश्विनमासस्य रेवत्यां—रेवतीनक्षत्रे रेवतीनक्षत्रयुक्ताश्विनपूर्णिमायामित्यर्थः। केवलं पौर्णमास्यां यावत्फलं कृत्तिकारेवतीयोगे तदधिकफलमिति तात्पर्यम्। शास्त्रान्तरात् चैत्र्याञ्च। हरिहरमते आश्विनस्य रेवत्यामेव न तत्र पौर्णमास्यपेक्षा।

अयमुपदिष्टः कार्त्तिक्यादिः काम्यवृषोत्सर्गस्य कालः प्रेतस्य प्रथमसंवत्सरात्परं वोद्धव्यः। प्रथमवर्षे काम्यकर्मण्यनधिकारात्। प्रेतवृषोत्सर्गस्य तु एकादशाहादिः कालः। तथा चाग्नेये—

एकादशाहे प्रेतस्य यदि नोत्सृज्यते वृषः।
मुच्यते प्रेतभावात् स षण्मासेऽप्याब्दिकादिषु॥

भविष्योत्तरे—

कार्त्तिक्यामथवा माघ्यामयने वा युधिष्ठिर।
चैत्र्यामथ तृतीयायां वैशाख्यां द्वादशेऽह्नि वा॥

तृतीयायां वैशाख्यामक्षयतृतीयायामित्यर्थः। काम्यवृषोत्सर्गे मातृपूजाभ्युदयिकश्राद्धादि कार्यं प्रेतवृषोत्सर्गे तत् त्याज्यमिति विशेषः।

मध्ये गवा ँ सुसमिद्धमग्निं कृत्वाऽऽज्य ँ
स ँस्कृत्येहरतिरिति षड् जुहोति । ४

गवां मध्ये—गृहाद् वहिः गोष्ठे एव नान्यत्र देशे। अग्निम्—आवसथ्याग्निं, सुसमिद्धं कृत्वा—पञ्चभूसंस्कारपूर्वकं प्रज्वाल्य आज्यं संस्कृत्य—पूर्वोक्तविधिना आज्यसंस्कारादिपर्युक्षणान्ते आघारहोमात् प्रागेव “इहरतिरिति”—इहरतिः स्वाहा, इह रमध्वं स्वाहा, इह धृतिः स्वाहा, इह स्वधृतिः स्वाहा, उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् स्वाहा, रायस्पोषमस्मासु दीधरत् स्वाहा इति षड्भिः मन्त्रैः षट् आज्याहुतीः जुहोति। सर्वत्र इदमग्नये न ममेति त्यागः। ततः आघाराज्यभागौ। ततः पायसेन शूलगवदेवताभ्यः अग्न्यादिभ्यो नवाहुतयः।

पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः।
पूषा वाज ँ सनोतु नः” इति पौष्णस्य जुहोति । ५