भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 203, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 203

( १८१ )

पायसेनानर्थलुप्तः । १४

गोयज्ञे विशेषमाह—पायसेनेति । पायसेन—पयसा सिद्धेन चरुणा अनर्थलुप्तः— अलुप्तप्रयोजनः शूलगवप्रधानदेवताहोमबलिलोपरहितः स्यादिति शेषः । पायसोपदेशात् गोयज्ञे पश्वालम्भो नास्तीति ज्ञायते ।

तस्य तुल्यवया गौर्दक्षिणा । १५

तस्य—शूलगवपशोः, तुल्यवयाः—तुल्यं समं वयः जन्मातिक्रान्त-कालः यस्य सः तुल्यवयाः गौः—गोपुङ्गवः, शूलगवकर्मणि, दक्षिणा—परिक्रयद्रव्यं ब्रह्मणे देया । गोयज्ञे तु पश्वालम्भोपदेशाभावात् पूर्णपात्र-वरयोरन्यतरं दक्षिणां दद्यात् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे अष्टमी कण्डिका ॥

—•—

( वृषोत्सर्गः )

अथ वृषोत्सर्गः । १

अथ—शूलगवानन्तरं वृषोत्सर्गः— वृषस्य वक्ष्यमाणलक्षणस्य उत्सर्गः—उत्सर्जनं वक्ष्यते इति शेषः ।

गोयज्ञेन व्याख्यातः । २

अयमेव वृषोत्सर्गः गोयज्ञेन—गोयज्ञाख्येन कर्मणा व्याख्यातः—उक्तः । एतेन वृषोत्सर्गः गोयज्ञसाध्यफले तकर्त्तव्यतावानित्यर्थः । हरिहरस्तु गवा—रौद्रेण पशुना यज्ञः गोयज्ञ इति गोयज्ञशब्दं शूलगवपरं व्याचख्ये । नैतत् । शूलगवे पश्वालम्भस्य नियतत्वात् वृषोत्सर्गस्य नैव शूलगवसमत्वं किन्तु गोयज्ञसमत्वम् ! अतः वृषोत्सर्गे गोयज्ञफलं पायसं चातिदिष्टम् । तेन स्वर्गपशुपुत्रधनयशआयुष्कामस्य वृषोत्सर्गे अधिकार इति स्पष्टम् ।

कार्तिक्यां पौर्णमास्या ॐ रेवत्यां वाऽश्वयुजस्य । ३