भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 202, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 202

( १८० )

ततः लोहितं—पशुरक्तं, पलाशेषु—पलाशपत्रेषु, कूर्चेषु—आसनेषु षट्सु, रुद्राय—रुद्रदेवतायै, सेनाभ्यः—रुद्रसेनाभ्यः अर्थात् सेनासहिताय रुद्राय, हरिहरमते रुद्राय सेनाभ्यः—रुद्राय देवताय सेना.—रुद्रायसेनाः, अलुक्समासः, ताभ्यः रुद्रसेनाभ्यः—इत्यर्थः । बलिम्—उपहारं, हरति—ददाति, यास्ते इत्यादिभिः षड्भिः मन्त्रैः । मन्त्रार्थाः स्फुटाः । (षण्णां मन्त्राणां परमेष्ठी, यजुः, रुद्रो, बलिहरणे)

ऊवध्यं लोहितलिप्तमग्नौ प्रास्यत्यधो वा निखनति । १०

लोहितलिप्तं—लोहितेन—रक्तेन, लिप्तं—संसृष्टम्, ऊवध्यं—पशोः पुरीषाधानम्, अग्नौ—आहवनीये अग्नौ प्रास्यति—प्रक्षिपति, अधः—भूमौ वा निखनति । नात्र मन्त्रः ।

अनुवातं पशुमवस्थाप्य रुद्रै रुपतिष्ठते,
प्रथमोत्तमाभ्यां वानुवाकाभ्याम् । ११

पशुम्—अवशिष्टपशुशरीरम्, अनुवातं—स्वदेशात् पशुदेशं प्रति यत्र वायुः वाति तादृशे स्थाने, अवस्थाप्य—निधाय, रुद्रैः—"नमस्ते रुद्रमन्यव" इत्यध्यायेनाम्नातैर्मन्त्रैः उपतिष्ठते—स्तौति, वा—पक्षान्तरे अस्यैवाध्यायस्य प्रथमोत्तमाभ्यां—प्रथमान्तिमाभ्याम् अनुवाकाभ्यां मन्त्रसमुदायाभ्यां "नमस्ते" इत्यारभ्य षोडशर्चः प्रथमानुवाकः । "द्रापे अन्धसस्पते" इत्यारभ्य त्रिशत्कण्डिकात्मकः, उत्तमः—अन्तिमः अनुवाकः । हारहरस्तु अनुवातमित्यत्र "अनुवातं—वातमनुलक्षीकृत्य वाताभिमुखमित्यर्थः इति व्याचख्यौ ।

नैतस्य पशोर्मांसं हरन्ति । १२

एतस्य—रौद्रस्य पशोः मांसं, ग्रामं—ग्रामं प्रति, न हरन्ति—न नयन्ति याज्ञिकाः इति शेषः । किन्तु अरण्ये एव उत्सृजन्ति इति भावः ।

एतेनैव गोयज्ञो व्याख्यातः । १३

एतेन—शूलगवेन एव गोयज्ञ.—गोयज्ञनामधेयो यागः व्याख्यातः—कथितः ।