पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 201, कुल 263 में से
संदर्भ में पढ़ें( १७६ )
मिश्राणि—चरुसहितानि, अवदानानि हृदयादीनि च सहैव श्रपयित्वा रुद्राय—रुद्राय स्वाहेति रुद्रदेवतायै वपां पूर्वोक्तलक्षणां तथा अन्तरिक्षाय—अन्तरिक्षाय स्वाहेति हुत्वा ततः स्थालीपाकमिश्राणि—चरुसहितानि, अवदानानि—हृदयादीनि पश्वङ्गमांसानि नवकृत्वः जुहोति— वह्नौ प्रक्षिपति, अग्नये स्वाहा इत्यादिभिः नवभिः नाममन्त्रैः ।
वनस्पतिस्विष्टकृदन्ते दिग्ब्याधारणम् । ७
वनस्पतिश्च स्विष्टकृच्च वनस्पतिस्विष्टकृतौ । तयोः वनस्पति-स्विष्टकृतोः अन्ते—अवसाने, दिग्ब्याधारणं—दिशां दिक्प्रदिगादिग्विदि-गुद्दिशां पञ्चानां पूर्वादिमध्यान्तेषु आहवनीयभागेषु दिशः स्वाहा इदं दिग्भ्य इति क्रमेण वसया हवनम् अग्नीषोमीय न्यायेन विधेयम् । अत्र पूर्वं वनस्पतिहोमः पृषदाज्येन, ततः स्विष्टकृद्धोमः, ततः दिग्ब्याधारण-मिति क्रमः ।
व्याघारणान्ते पत्नीः संयाजयन्तीन्द्राण्यै रुद्राण्यै शर्वाण्यै भवान्या अग्निं गृहपतिमिति । ८
आधारणस्य—दिशामभिघारणस्य, अन्ते—अवसाने गार्हपत्याग्नौ जाघन्य पश्वङ्गे न संयाजयन्ति—पञ्च पत्नीसंयाजाहुतीः जुह्वति "इन्द्राण्यै 'इत्यादिभिः पञ्चभिर्नाममन्त्रैः । अत्र अग्निःगृहपतिरेका देवता । पत्नी संयाजहोमानन्तरम् आहवनीये महाव्याहृत्यादिप्राजापत्यन्तहोमः ।
लोहितं पलाशेषु कूर्चेषु रुद्राय सेनाभ्यो बलिं हरति—
१- यास्ते रुद्र पुरस्तात् सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमः । २- यास्ते रुद्र दक्षिणतः सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमः । ३- यास्ते रुद्र पश्चात् सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमः । ४- यास्ते रुद्रोत्तरतः सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमः । ५- यास्ते रुद्रोपरिष्टात् सेनास्ताभ्य एष बलिस्ताभ्यस्ते नसः । ६- यास्ते रुद्राधस्तात् सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमः । इति ॥ ६