पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 200, कुल 263 में से
संदर्भ में पढ़ें( १७८ )
आयुषे हितः । यदा यजमानः स्वर्गादीनां किमपि कामयेत तदा शूलगवाख्येन यजेत अनेककामानां युगपदुत्पत्त्यसम्भवात् । फलश्रवणात् एतत् काम्यं नैव नित्यमिति ।
औपासनमरण्यं हृत्वा वितानं साधयित्वा रौद्रं पशुमालभेत । ३
शूलगवकर्मणि औपासनम्—आवसथ्याग्निम् । अरण्यम्—अटवीं, हृत्वा—नीत्वा, तत्र वितानं—त्रेताग्निविन्यासं साधयित्वा—शूलोक्तप्रकारेण सम्पाद्य, रौद्रं—रुद्रो देवता अस्येति रौद्रः तं पशुं छागम् आलभेत—संज्ञपयति ।
साण्डम् । ४
कीदृशं पशुमालभेत इत्यपेक्षायामाह साण्डमिति । साण्डम्—अण्डाभ्यां सह वर्त्तमानं पुरुषपशुमितिभावः । साण्डमनपुंसकमिति भाष्यकाराः ।
गौर्वा शब्दात् । ५
वाशब्दः पक्षव्यावृत्तौ । नैवात्र छागो रौद्रः पशुः अपि तु साण्डो गौरेव । कुत एतदायाति शब्दात्—"शूलगव"इति कर्मणः वाचकशब्दात्। कर्मनामनि गोशब्ददर्शनात् अत्र गौरेव पशुरिति ज्ञायते इति भावः । कलौ गोवधस्य सर्वथा निराकृतत्वात् लोकविद्विष्टत्वाच्च गोपशुः सर्वथा त्याज्य एवेति पूर्वमालोचितमष्टकाप्रकरणे ।
वपाꣳ श्रपयित्वा स्थालीपाकमिश्राण्यवदानानि च रुद्राय वपामन्तरिक्षाय वसाꣳ स्थालीपाकमिश्राण्यवदानानि जुहोत्यग्नये रुद्राय शर्वाय पशुपतये उग्रायाशनये भवाय महादेवाये शानायेति च ॥ ६
वपां—नाभिस्थचर्मविशेषं, श्रपयित्वा—पक्त्वा, स्थालीपाक-