पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 199, कुल 263 में से
संदर्भ में पढ़ें( १७७ )
सः—दासः, यदि—चेत्, भ्रम्यात्—अस्मिन् परिसेचनकर्मणि कृतेऽपि स्वेच्छया विचरेत्, तदा तस्य वशीकरणार्थं, दावाग्नि—दवदहनम्, उपसमाधाय—पञ्चभूसंस्कारपूर्वकं स्थापयित्वा, ब्रह्मोपवेशनादि-पर्युक्षणान्ते आघारादिचतुर्दशाहुत्यनन्तरं, घृताक्तानि—घृतलिप्तानि त्रीणि कुशेण्ड्वानि—कुण्डलाकारकुशपत्राणि जुहुयात् ‘परित्वे’ति मन्त्रेण ।
मन्त्रार्थः (परमेष्ठी, अनुष्टुप्, इन्द्रः, होमे)—इन्द्रस्य—देवराजस्य, वीरुधः—सेवकः, स्वामिभक्तः स्यात् इत्येवं रूपात् पाशात् परि—समन्तात्, निवृत्त—निर्गत्य स्थित, हे ह्वल—चपल, दास, त्वा—त्वां चपलं ह्वलेनः—अग्निः इन्द्रपाशेन—इन्द्रस्य तेनैव पूर्वोक्तेन पाशेन सित्वा—बद्ध्वा, अन्य—तव मनसि वर्त्तमानम् अनर्थकभूतविशेषं, परि—समन्तात्, मुक्त्वा—मोचयित्वा, मह्यं—मदर्थम्, आनयेत्—प्रत्यानयतु ।
क्षेम्यो ह्येव भवति । ४
एवं कर्मणि कृते दासः क्षेम्यः—वश्यः, भवति—सम्पद्यते । एव—निश्चयार्थे । हि—स्फुटार्थे ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे सप्तमी कण्डिका ॥
— ४०४ —
( शूलगवः )
शूलगवः । १
सम्प्रति दासवशीकरणानन्तरं शूलगवः—शूलगवाख्यं कर्मविशेषः उच्यते ।
स्वर्ग्यः पशव्यः पुत्र्यो धन्यो यशस्य आयुष्यः । २
स शूलगवः स्वर्ग्यः—स्वर्गाय हितः, पशव्यः—पशुभ्यो हितः, पुत्र्यो—पुत्रेभ्यो हितः, धन्यः—धनाय हितः, यशस्यः—यशसे हितः, आयुष्यः—