भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 198, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 198

( १७६ )

( दासवशीकरणम् )
उतूलपरिमेहः ॥ १

सम्प्रति उतूलस्य—दुर्विनीतस्य दासस्य, परिमेहः—परि—समन्तात् मेहः सेचनम् अर्थात् वशीकरणं कर्म उच्यते ।

स्वपतो जीवविषाणे स्वमूत्रमासिच्यापसलवि त्रिः परिषिञ्चन् परीयात्—
परि त्वा गिरेरहं परि मातुः परि स्वसुः ।
परि पित्रोश्च भ्रात्रोश्च सखिभ्यो विसृजाम्यहम् ॥
उतूल परिमीढोऽसि परिमीढः क्व गमिष्यसीति ॥ २

स्वपतः—निद्रितस्य दासस्य, दासस्य शयनावस्थायामित्यर्थः । जीवविषाणे—जीवंतः गवादेः पशोः विषाणे—शृङ्गे, स्वमूत्रं—स्वस्य मूत्रम्, आसिच्य—सिक्त्वा, तेन शृङ्गस्थमूत्रेण तं दासम् अपसलवि—अप्रादक्षिण्येन, परिषिञ्चन्—परि—समन्तात्, सिञ्चन्—उक्षन्, त्रिः—त्रिवारं, परीयात्—परिभ्रमेत् "परित्वे"ति मन्त्रेण ।

मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, वायुः, सेचने) भो उतूल—दुर्विनीत, त्वा—त्वां दुर्विनीतं भृत्यम्, अहं गिरेः—पर्वतात् परि—पर्याकृष्य, मातुः—तव मातुः समीपात्, परि—आकृष्य, स्वसुः—तव भगिन्याः समीपात् परि—आकृष्य, तव पित्रोः तथा भ्रात्रोः—भगिनीभ्रात्रोश्च सकाशात् सखिभ्यः—बन्धुभ्यश्च सकाशात्, परि—पर्याकृष्य, विसृजामि—विशिष्टतया सृजामि, मयि अनुरक्तं करोमि इति भावः । हे उतूल—दुर्विनीत, त्वं परिमीढः—मूत्रेण सिक्तः, असि—भवसि, सिक्तः त्वं क्व गमिष्यसि ? मां परित्यज्य न क्वापि गन्तुमर्हसि इति भावः ।

स यदि अभ्याह्वाद्वाग्निमुपसमाधाय
घृताक्तानि कुशेण्ड्वानि जुहुयात्
परि त्वा ह्वलतो ह्वल निर्ऋतेन्द्रवीरुधः ।
इन्द्रपाशेन सित्त्वा मह्यं मुक्त्वाऽथान्यमानयेदिति । ३