पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 197, कुल 263 में से
संदर्भ में पढ़ें( १७५ )
यदि स्वस्थ परस्य वा शिरसि पीडा जायते तत्र पाणी—स्वकीयहस्तौ प्रक्षाल्य—अद्भिरवनेज्य, भ्रुवौ—रोगिणः भ्रुवौ, विमार्ष्टि—प्रक्षालिताभ्याम् आत्मपाणिभ्यां युगपत् प्रोक्षति "चक्षुर्भ्यामिति मन्त्रेण ।
मन्त्रार्थः— (परमेष्ठी, अनुष्टुप्, वायुः, रोगापाकरणे) चक्षुर्भ्या—नेत्राभ्यां, श्रोत्राभ्यां— कर्णाभ्यां तथा गोदानात्— शिरसः दक्षिण-पश्चिमोत्तरभागरूपात्, चूडाकरणे (२-१-६) गोदानशब्दो व्याख्यातः । शुबुकात्—चिबुकात्, रराटात्—ललाटात् एतेभ्यः अङ्गेभ्यः, अधि—सकाशात्, शीर्षंण्यं—शीर्षणि शिरसि भवं, यक्ष्मं—रोगं, विवृहामि—अत्यन्तं निराकरोमि ।
अर्द्धँ चेदवभेदक विरूपाक्ष श्वेतपक्ष महायशः । अथो चित्रपक्ष शिरो मास्याभिताप्सीदिति ॥ ३
**चेद्—**यदि, **अर्द्धं—**शिरसः अर्द्धं व्यथते तदा पूर्ववत् पाणी प्रक्षाल्य यदि शिरसः दक्षिणभागे पीडा तदा दक्षिणेन पाणिना दक्षिणां भ्रुवं, यदि वामभागे पीडा तदा वामेन पाणिना वामां भ्रुवं विमार्ष्टि "अवभेदक" इत्यादिना मन्त्रेण ।
मन्त्रार्थः—( प्रजापतिः अनुष्टुप् विरूपाक्षः रोगापाकरणे) हे महायशः—प्रतापयुक्त, अवभेदक—अवाचीनानि अङ्गानि भेदयतीति अवभेदकः तत्सम्बुद्धौ, हे विरूपाक्ष—विरूपे विकृते अक्षिणी यस्मात् तत्सम्बुद्धौ, श्वेतपक्षचित्रपक्षौ अन्वर्थशब्दौ । एतादृश हे रोग, अस्य—अमुकस्य मम वा शिरः—शिरःप्रदेशं मा अभिताप्सीत्—न पीडयतु भवान् ।
क्षेम्यो ह्येव भवति । ४
**हि—**यस्मात् एव कृते **क्षेम्यः—**क्षेमार्हः शिरोरोगशून्यः भवति **एव—**निश्चयार्थे ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे षष्ठी कण्डिका ॥