भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 196, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 196

( १७४ )

क्रतुं च भद्रं बिभृथामृतं च । रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गृणते वयोधादिति । ३ तस्मिन्—मणिके, अपः—उदकं नद्यादेः आनीतं, निषिञ्चति—प्रक्षिपति, "आपो रेवतीः" इति मन्त्रेण ।

मन्त्रार्थः—(परमेष्ठी, त्रिष्टुप्, आपः, आसेचने) हे आपः, हि—यस्मात्, यूयं रेवतीः—धनवत्यः, अत्र द्वितीया प्रथमार्थे, तथा रायः—धनस्य, स्वपत्यस्य—शोभनापत्यस्य, पत्नीः—स्वामिन्यः, तथा वस्वः—वसुनः धनस्य, क्षयथा—निवासभूताः भवथ, तस्मात् भद्रं—श्रेष्ठं, क्रतुं—यज्ञम्, अमृतं—मोक्षलक्षणं हविर्भागलक्षणं वा "यज्ञशेषं तथाऽमृतम् इत्यादिना सिद्धं, बिभृथ—धारयथ, तत्—युष्मत्स्वरूपं, गृणते—स्तुवते यजमानाय, सरस्वती—वाग्देवी, वयः-आयुः, अधात्—दधातु, ददातु इत्यर्थः ।

आपोहिष्ठेति च तिसृभिः । ४ "आपोहिष्ठा मयोभुव" इत्यादिभिः ऋग्भिश्च अप आसिञ्चति ।

ततो ब्राह्मणभोजनम् । ५ एकस्य ब्राह्मणस्यापि भोजनेन कर्मसाफल्यं भवतीति भावः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे पञ्चमी कण्डिका ॥

—🔘—

( शिरोरोगप्रतिकारः ) अथातः शीर्षरोगभेषजम् । १ अथ—मणिकावधानान्तरं यतः शिरोरोगवान् किञ्चित् कर्म कर्त्तुं न शक्नोति, अतः—अस्मात् कारणात्, शीर्षरोगभेषजं—शीर्षणि मूर्ध्नि यो रोगः—व्याधिः, तस्य भेषजं—चिकित्सा व्याख्यास्यते इति शेषः ।

पाणी प्रक्षाल्य भ्रुवौ विमार्ष्टि— य॑क्ष्मा॒ श्रोत्राभ्यां गोदानाच्छुबुकादधि । यक्ष्म॑ᳵ शीर्ष॒ण्य॑ᳵ र॒राटाद्विबृहामोममिति । २