पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 195, कुल 263 में से
संदर्भ में पढ़ें( १७३ )
अरिष्टवीराः—वीराः पुत्रादयः, अरिष्टाः निराधिव्याधयः, सन्तु—भवन्तु इति।
ततो ब्राह्मणभोजनम् । २०
ततः— समाप्ते कर्मणि यथाशक्ति ब्राह्मणभोजनम् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे चतुर्थी कण्डिका ॥ — ४०४ —
( मणिकावधानम् )
अथातो मणिकावधानम् । १
अथ— शालाकम्मानन्तरम्, अतः— यतः शालायां मणिकस्य आवश्यकतास्ति ततः, मणिकावधानम्— मणिकस्य अलिञ्जरस्य जल- भाण्डस्य, अवधानं— स्थापनं वक्ष्यते इति शेषः ।
उत्तरपूर्वस्यां दिशि यूपवदवटं खात्वा कुशानास्तीर्याक्षता-
नरिष्टकार्थांश्चान्यानि चाभिमङ्गलानि च तस्मिन्
मिनोति मणिकं समुद्रोऽसी'ति ॥ २
तत्र शालायाम् उत्तरपूर्वस्यां— ऐशान्यां दिशि, यूपवत् इति “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नार्यसि” इति अभ्रिमादाय “इदमहमूं रक्षसां ग्रीवा अपि कृन्तामि” इति अवटं— गर्तं खात्वा— पांशूनपसार्य तत्र गर्ते कुशान् प्रागग्रान् दीर्घान् अभि आस्तीर्य— परितः स्तृत्वा, अक्षतान्— यवान्, अरिष्टकान्— अरिष्टफलानि अन्यानि मङ्गलानि, ऋद्धिवृद्धिदूर्वासिद्धार्थकादीनि च ओप्य तस्मिन्— गर्ते, मणिकम्— उदकधानीं मिनोति— स्थापयति "समुद्रोऽसी"ति मन्त्रेण ।
सम्पूर्णो मन्त्रो यथा— समुद्रोऽसि नभस्वानाद्र्ददानुः शम्भुर्मयोभूरभि मा र्वाहि स्वाहा (शु य. १८-४५)।
अप आसिञ्चति— आपो रेवतीः क्षयथा हि वस्वः