पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 194, कुल 263 में से
संदर्भ में पढ़ें( १७२ )
चन्द्रमा वा अस्वप्नो वायुरनवद्राणस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मोत्तरतो गोपायेतामिति । १८
अथ-पश्चिमदिगुपस्थानानन्तरमुत्तरां दिशं गत्वा तामुपतिष्ठते "अस्वप्नश्चे"त्यादिना ।
निष्ठितां प्रपद्यते-
धर्मस्थूणाराजं श्रीस्तूपमहोरात्रे द्वारफलके इन्द्रस्य गृहा वसुमन्तो वरूथिनस्तानहं प्रपद्ये सह प्रजया पशुभिः सह । यन्मे किञ्चिदस्त्युपहूतः सर्वगणसखायसाधुसंवृतः । तां त्वा शालेऽरिष्टवीरा गृहान्नः सन्तु सर्वत इति ॥ १९
निष्ठितां—सूत्रोक्तविधिना प्रतिष्ठितां सर्वदेवैः कृतरक्षां शालां । प्रपद्यते—निवासार्थं प्रविशति, "धर्मस्थूणा" इत्यादिमन्त्रेण । निष्ठितां सम्पूर्णनिर्मितामिति कर्कहरिहरौ ।
मन्त्रार्थः— (धर्मस्थूणेतिमन्त्रयोः ब्रह्मा, क्रमेणजगतोबृहत्यौ, लिङ्गोक्ता देवता प्रवेशने)
१- धर्मस्थूणाराजं —धर्मरूपं स्थूणाराजं महतीं स्थूणां, श्रीस्तूपं—लक्ष्मीस्वरूपं स्तूपयुक्तम् । अगारे हि स्तूपो वध्यते । तं प्रपद्ये । तथा अहोरात्ररूपे द्वारफलके—कपाटभागद्वयरूपे प्रपद्ये । तथा वसुमन्तः—धनयुक्ताः, वरूथिनः—रक्षपुरुषयुक्ताः । इन्द्रस्य गृहाः—इन्द्रदेवताकाः इमे गृहाः भवन्ति । तान् गृहान् अहं प्रजया—पुत्रकन्याभिः सह पशुभिः—गवादिभिश्च सह प्रपद्ये—प्रविशामि ।
२- हे शाले—हे गृह ! मे—मम यत्किञ्चित् वस्तु अस्ति तेन उपहूतः—आहूतः तत्सहित इत्यर्थः । अहं सर्वगणसखा—सर्वगणानां सर्वजनानां सखा—बन्धुः सन् तथा अयसाधुसंवृतः—सुसाधुजनसमेतः सन्, तां—प्रसिद्धां, त्वा—त्वां, प्रार्थये, गृहान् युष्मान् प्राप्य सर्वतः—सर्वप्रकारेण, नः—अस्माकम्, अरिष्टवीराः— अरिष्टाः इमे वीराः