भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 193, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 193

( १७१ )

उत्तरे सन्धावभिमृशति—

ऊर्क॒ च त्वा सूनृता चोत्तरे सन्धौ गोपायेतामिति । १४

"ऊर्क॒ च त्वे"ति उत्तरसन्धिमालभते । ऊर्क॒—तेजः, सूनृता—प्रियहितवाक्, अन्यत् स्पष्टम् ।

निष्क्रम्य दिश उपतिष्ठते—

केता च मा सुकेता च पुरस्ताद् गोपायेतामित्यग्निर्वै केताऽऽदित्यः सुकेता तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पुरस्ताद्गोपायेतामिति । १५

सन्धीनामभिमर्शनानन्तरं गृहाद् बहिः निष्क्रम्य—निर्गत्य दिशः—पूर्वादीः चतस्रो दिशः प्रदक्षिणक्रमेण "केता च मे"त्यादिभिश्चतुर्भिर्मन्त्रैः प्रतिमन्त्रमुपतिष्ठते । तत्रादौ "केता चे"ति मन्त्रेण पूर्वदिगुपस्थानम् । मन्त्रार्थः स्पष्टः ।

अथ दक्षिणतो— गोपायमानं च मा रक्षमाणा च दक्षिणतो गोपायेतामित्यहर्वै गोपायमानठूं रात्री रक्षमाणा ते प्रपद्ये ताभ्यां नमोऽस्तु ते मा दक्षिणतो गोपायेतामिति । १६

अथ—पूर्वदिगुपस्थानानन्तरं, दक्षिणतः—दक्षिणां दिशं गत्वा तामुपतिष्ठते 'गोपायमानं चे'त्यादिना । मन्त्रार्थः स्पष्टः ।

अथ पश्चात्— दीदिविश्च मा जागृविश्च पश्चाद् गोपायेतामित्यन्नं वै दीदिविः प्राणो जागृविरतौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पश्चाद् गोपायेतामिति । १७

अथ—दक्षिणदिगुपस्थानानन्तरं, पश्चात्—गृहस्य पश्चिमां दिशं गत्वा तत्र पश्चिमां दिशमुपतिष्ठते "दीदिविश्चे"त्यादिना ।

अथोत्तरतः—

अस्वप्नश्च मानवद्राणश्चोत्तरतो गोपायेतामिति