भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 207, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 207

( १८५ )

'या वो देवाः सूर्ये रुचो गोष्वश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥ १८-४७ रुचं नो धेहि ब्राह्मणेषु रुचꣳ राजसु नस्कृधि । रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् । १८-४८ "तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीः । १८-४६ "स्वर्ण घर्मः स्वाहा । स्वर्णार्कः स्वाहा । स्वर्ण शुक्रः स्वाहा । स्वर्ण ज्योतिः स्वाहा । स्वर्ण सूर्यः स्वाहा । १८-५० इति । सम्पूर्णपद्धतिस्तु आकरेषु मृग्या । इति वृषोत्सर्गः ।

( पायसप्राशनम् )

सर्वासां पयसि पायसꣳ श्रपयित्वा ब्राह्मणान् भोजयेत् । ८

पूर्वं "चत्वारः पाकयज्ञा हुतोऽहुतः प्रहुतः प्राशित इति (१-४-१) सूत्रे प्राशितमुपन्यस्तम् । तस्येदमद्यनुष्ठानमुच्यते सर्वासाामिति । सर्वासां—स्वीयानां, गवामिति शेषः । पयसि—दुग्धे, पायसं—पयसासिद्धमोदनं परमान्नमिति यावत्, श्रपयित्वा—साधयित्वा, ब्राह्मणान्—विप्रभृतीन् पायसोचितानिति भावः । भोजयेत्—भोजनदानेन तर्पयेत् । अस्य प्राशितस्य होमवलिरहितत्वेन पञ्चमहायज्ञार्थपाकादस्य पाकः स्वतन्त्रः, देशश्च गृहाद् बहिरिति प्रकरणात् ज्ञायते । प्राशनफलञ्च प्रकरणात् शूलगवफलमेवेत्यवगन्तव्यम् ।

पशुमप्येके कुर्वन्ति । ९

यथा सर्वासां गवां पायसेन ब्राह्मणान् तर्पयन्ति तथा, एके आचार्याः पशुं—छागमपि कुर्वन्ति—व्यापादयन्ति, छागपशुमांसेन ब्राह्मणान् तर्पयन्तीत्यर्थः । गृह्यसूत्रेषु हि करोतेः व्यापादने प्रसिद्धिः "अधियज्ञमधिविवाहं कुरुतेत्येव ब्रूया (१-३-३१) दिति निदर्शनात् ।

तस्य शूलगवेन कल्पो व्याख्यातः । १०