पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 208, कुल 263 में से
संदर्भ में पढ़ें( १८६ )
(पशुपक्षे) तस्य—पशोः, कल्पः—इतिकर्त्तव्यताकलापः शूलगवेन—शूलगवाख्यकर्मणा, व्याख्यातः—कथितः। शूलगवातिदेशेन अत्र अरण्य-देशः प्राप्तः, प्राशितत्वेन पञ्चमहायज्ञार्थपाकभिन्नः पाकोऽप्यत्र विवक्षितः। पशुस्थाने गोपशुरपि।
मन्मते अत्र शूलगव—गोयज्ञ—वृषोत्सर्ग—पायसप्राशन—मांस-भोजनभेदेन पञ्चधा गोयज्ञभेदाः प्रदर्शिताः। गवाधिकारिकत्वेन एषां सर्वेषामपि गोयज्ञत्वमेव।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां तृतीयकाण्डे नवमी कण्डिका ॥ —४०४—
( अन्त्येष्टिकर्म )
अथोदककर्म ॥ १ ॥
अथ—पुरुषसंस्कारकर्मक्रमप्राप्तम्, उदककर्म—उदकेन—जलेन कर्म—क्रिया प्रेतक्रिया इति यावत् व्याख्यास्यते इति सूत्रशेषः। उदक-कर्मात्र उपलक्षणम्। तेन आशौचादि यमनियमा अपि वक्ष्यन्ते।
अद्विवर्षे प्रेते मातापित्रोराशौचम् ॥ २ ॥
अद्विवर्षे—द्वे वर्षे अतीते यस्य सः द्विवर्षः। न द्विवर्षः अद्विवर्षः ऊनद्विवर्षः इति यावत्, तस्मिन्, प्रेते—प्रकर्षेण इतः गतः प्रेतः—मृतः तस्मिन् निमित्ते, मातापित्रोः—माता च पिता च मातापितरौ तयोः आशौचम्—अशुद्धिः वर्णाश्रमविहितकर्मानुष्ठानसंकोचावस्था, जायते इति शेषः।
अशौचलक्षणमुक्तं विज्ञानेश्वरैः—"कालज्ञानाद्यपनोद्यः पिण्डोदक-दानादिविधेः अध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुषगतः कश्चना-तिशयः इति।
शौचमेवेतरेषाम् ॥ ३ ॥