भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 209, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 209

( १८७ )

इतरेषां—मातापितृभिन्नानां सपिण्डानां, शौचम्—अशौचाभावः, एव—निश्चयार्थे। शौचमत्र अङ्गस्पृश्यत्वलक्षणं नतु साकल्येनाशौचाभाव इति विज्ञानेश्वराचार्याणामभिप्रायः ।

एकरात्रं त्रिरात्रं वा । ४

ऊनद्विवर्षमरणे पित्रोर्यदशौचमुत्पद्यते तत् एकरात्रम्—एकमहोरात्रम् । वा—अथवा, त्रिरात्रं—त्रीणि अहोरात्राणि । अयं विकल्पः प्रेतस्य अजातदन्तजातदन्तत्वापेक्षया व्यवस्थितः । अकृतकृतचूडत्वेन व्यवस्थित इति हरिहरः । अत्र सर्वत्र रात्रिशब्दः अहोरात्रपरः ।

अजातदन्तमरणे पित्रोरेकाहमिष्यते ।
जातदन्ते त्रिरात्रं स्यादिति शास्त्रविनिश्चयः ॥ इति

कौर्मवचनादुक्तलदेशे अजातदन्तजातदन्तविषयत्वेन यद् व्यवस्थाप्यते तत्समीचीनम् । सपिण्डानामात्र "आदन्तजन्मनः सद्य आचूडा नैशिकीस्मृता" इति याज्ञवल्क्योक्त्या,

तथा—यद्यप्यकृतचूडोऽपि जातदन्तस्य संस्थितः ।
दाहयित्वा तथाप्येनमशौचं त्र्यहमाचरे'दिति

अङ्गिरोवचनेन च दन्तजन्मोपलक्षितषष्ठमासानन्तरं त्रिरात्रमशौचं विहितं तत् गृह्यसूत्रविरुद्धमपि आद्रियते । स्त्रीपुंसोः वयोवस्थाविशेषेण यत् अशौचं तत् सर्ववर्णसाधारणं "तुल्ये वयसि सर्वेषा"मिति व्याघ्रपादोक्तेः ।

शरीरमदग्ध्वा निखनन्ति । ५

ऊनद्विवर्षस्य प्रेतस्य शरीरं — कुणपम्, अदग्ध्वा—अग्निना दग्धमकृत्वा, निखनन्ति — गर्त्ते प्रक्षिपन्ति ।

अन्तःसूतके चेदुत्थानादाशौचं सूतकवत् । ६

चेत् — यदि, अन्तः — मध्ये, सूतके — जनननिमित्तकाशौचमध्ये, अशौचं—मरणाशौचम् अर्थात् यदि जननप्रभृतिदशाहमध्ये शिशुः विपद्यते, तदा आ उत्थानात्—शिशुजननावधिदशरात्रपर्यन्तं मातपित्रोरेवाशौचमन्येषां सद्यः शौचमिति । उत्थानं—सूतिकाग्नेः