पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 210, कुल 263 में से
संदर्भ में पढ़ें( १६८ )
सूतिकागृहादपसारणं, प्रायस्तद्दशमेऽहनि भवति, तेन उत्थानपदम् अशौचान्तदिवसोपलक्षणम्। तथाच शङ्खः—
बालस्त्वन्तर्दशाहे तु प्रेतत्वं यदि गच्छति।
सद्यः शौचं सपिण्डानां न प्रेतं नैव सूतकम्॥ इति
एतादृशी व्याख्या कालसारादिसम्मता प्रकरणमप्यन्वेति। कर्कचार्यस्तु अन्यथा व्याख्यान्ति “अन्तःसूतके चेत्पुनः सूतकमापद्यते आ उत्थानादशुद्धिः पूर्वस्यैव सूतकाशौचस्य उत्थानेनोत्तरस्य शुद्धिः। अन्तःशावाशौचं च सूतकवद् द्रष्टव्यमिति।
नात्रोदकर्म॥ ७॥
अत्र ऊनद्विवार्षिके प्रेते उदककर्म—प्रेताय उदकाञ्जलिदानकर्म न भवति।
द्विवर्षप्रभृतिप्रेतमाशमशानात् सर्वेऽनुगच्छेयुः॥ ८॥
द्वे वर्षे वयो यस्य सः द्विवर्षः, तत्प्रभृतिः—तदादिः यः प्रेतः तं द्विवर्षाधिकवयसमित्यर्थः। आ श्मशानात्— श्मशानपर्यन्तं, सर्वे—सपिण्डाः, अनुगच्छेयुः—पश्चाद् व्रजेयुः। अत्र श्मशानपदं दाहाद्युपलक्षकम्, श्मशानशब्देन हि प्रेतदाहभूमिरुच्यते।
यमगाथां गायन्तो यमसूक्तं च जपन्त इत्येके॥ ९॥
प्रेतानुगमनकाले अनुगन्तारः सपिण्डाः यमगाथाम्—
अहरहर्नयमानो गामश्वं पुरुषं पशुम्।
वैवस्वतो न तृप्यति सुराप इव दुर्मतिः॥ इति गाथां
गायन्तः; तथा यमसूक्तम्— 'अपेतो यन्तु' इत्याद्यध्यायं, च—समुच्चयार्थः, जपन्तः—पठन्तः सन्तः अनुगच्छेयुरिति एके—आचार्याः आहुः।
यद्युपेतो भूमिजोषणादि समानमाहिताग्नेरोदकान्तस्य गमनात्॥ १०॥
यदि—चेत्, प्रेतः उपेतः— उपनीतः स्यात् तदा तस्य कृते भूमिजोषणादि—दाहभूमिसंस्कारादि उदकान्तस्य—उदकाञ्जलिदानार्थं