भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 211, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 211

( १८६ )

जलसमीपस्य आ गमनात्—गमनपर्यन्तं सर्वं प्रेतकर्म आहिताग्नेः—बैतानाग्निमतः कर्मणा समानं—तुल्यं भवति । उपनीतस्य आहिताग्निरीत्या दाहादिकर्म कर्त्तव्यम् । किन्तु यच्च आहिताग्नेः अग्निसम्बन्धि पात्रन्यासादिकर्म तस्य असम्भवात् विधेयता नास्ति ।

शालाग्निना दहन्त्येनमाहितश्चेत् । ११

चेत्—यदि, असौ—प्रेतः, आहितः—कृतावसथ्याधानः स्यात् तदा एनं—कृतशालाग्न्याधानं प्रेतं शालाग्निना दहन्ति पुत्रादयः अधिकारिणः । अधिकारिणस्तु क्रमेण दर्शिताः विष्णुपुराणे—

पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः । ३-१३-३०
सपिण्डसन्ततिर्वापि क्रियार्हो नृप जायते ।
तेषामभावे सर्वेषां समानोदकसन्ततिः । ३-१३-३१
मातृपक्षस्य पिण्डेन सम्बद्धा वा जलेन वा ।
कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्या क्रिया नृप । ३-१३-३२
संघातान्तर्गतैर्वापि कार्या प्रेतस्य सत्क्रिया ।
उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः । ३-१३-३३ इति

तूष्णीं ग्रामाग्निनेतरम् । १२

इतरम्—अकृतावसथ्याधानं प्रेतं ग्रामाग्निना—लौकिकाग्निना, तूष्णीं—विना मन्त्रं दहन्ति इत्यनुषङ्गः ।

संयुक्तं मैथुनं वोदकं याचेरन्नुदकं करिष्यामह इति । १३

संयुक्तं—केनचित् सम्बन्धेन सम्बद्धं, वा—अथवा, मैथुनं—मैथुनः मिथुनस्य एकदेशलक्षणया मैथुनशब्दवाच्यायाः भार्यायाः भ्राता, श्याल इत्यर्थः तम्, उदकम्—उदकक्रियासम्पादनां, याचेरन्—प्रार्थयेरन् उदकं—करिष्यामहे इति ।

कुरुध्वं मा चैवं पुनरित्यशतवर्षे प्रेते । १४

अशतवर्षे—अपूर्णशतवत्सरे प्रेते—मृते, पूर्वसूत्रोक्तप्रकारेण पृष्टः संयुक्तः श्यालो वा "कुरुध्वं मा चैवं पुनरिति प्रतिब्रूयात् । कुरुध्वम्—