पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 212, कुल 263 में से
संदर्भ में पढ़ें( १६७ )
उदकक्रियां कुरुध्वं—कुरुत । पुनः अशतवर्षप्रेतोद्देशेन एवम्—अनेन प्रकारेण उदकक्रियां मा कुरुध्वं—न कुरुत । पुनश्च भवतः वंशे अशतवर्षः जनः न म्रियतामिति भावः ।
कुरुध्वमित्येवेतरस्मिन् । १५
इतरः— शतसंवत्सरप्रभृतिकः तस्मिन् मृते सति “कुरुध्वम्”— उदकक्रियां कुरुतेत्यभिप्रायकम् इति एव—एतावदेव प्रतिवचनं संयुक्तो वा श्यालो वा ब्रूयात् ।
सर्वे ज्ञातयोऽपोभ्यवयन्त्यासप्तमात् पुरुषाद्दशमाद्वा । १६
आसप्तमात्—सप्तमपुरुषमभिव्याप्य यावन्तः, दशमात्—दशमपुरुषमभिव्याप्य वा यावन्तः, ज्ञातयः—सपिण्डाः समानोदकाश्च भवन्ति ते सर्व एव स्नानार्थम् अपः—नद्यादेः जलम्, अभ्यवयन्ति—प्रविशन्ति । अत्र वा समुच्चयार्थे ।
समानग्रामवासे यावत्सम्बन्धमनुस्मरेयुः । १७
समाने—एकस्मिन् ग्रामे वासः अवस्थानं समानग्रामवासः, तस्मिन् सति यावत्सम्बन्धं—यदवधि, सापिण्ड्यं—समानोदकत्वं सगोत्रत्वं वा सम्बन्धम्—अनुस्मरेयुः—अस्मिन् पुरुषे वयं सम्बन्ध्यामहे इति यावन्तः जानीयुः तावन्तः जनाः अपोभ्यवयन्ति इति सम्बन्धः ।
कथमपोभ्यवयन्तीत्यपेक्षायामाह एकेति —
एकवस्त्राः प्राचीनावीतिनः सव्यस्यानामिकयाऽपनोद्यापनः शोशुचदघमिति दक्षिणामुखा निमज्जन्ति । १८
एकवस्त्रा—एकं परिधानीयमात्रं वस्त्रं येषां ते एकवस्त्राः प्राचीनावीतिनः—प्राचीनावीतं विद्यते येषां ते प्राचीनावीतिनः, कृतापसव्याः दक्षिणस्कन्धधृतयज्ञोपवीता इत्यर्थः । ते सव्यस्य— वामस्य पाणेः अनामिकया— उपकनिष्ठिकया **"अप नः शोशुचदघ"**मिति मन्त्रेण उदकं—नद्यादेः जलम्, अपनोद्य—अपसार्य, दक्षिणामुखाः—याम्यदिगभिमुखाः, निमज्जन्ति—युगपत् निमज्जनस्नानं कुर्वन्ति । अयमेक-