भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 62, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 62

( ४० )

गौ ब्राह्मणस्य वरः ॥ १-८-१५ ॥ ग्रामो राजन्यस्य ॥ १-८-१६ ॥ अश्वो वैश्यस्य ॥ १-८-१७

गौः ब्राह्मणस्य वरस्य पक्षे आचार्याय देया दक्षिणा। क्षत्रियस्य वरस्य ग्रामः वरः, वैश्यस्य तु अश्वः वरः। एते वरा विवाहे एव इति गदाधरः। सर्वासु वरचोदनासु गवादयो वरशब्दवाच्या इति भर्तृयज्ञः।

अधिरथँ शतं दुहितृमते । १-८-१८

दुहितृमते—कन्यापित्रे अधिरथम्—अधिकः रथः यत्र तादृ...
शतं—गवां शतं दद्यात् वरः।

( ध्रुवदर्शनम् )

अस्तमिते ध्रुवं दर्शयति—
“ध्रुवमसि ध्रुवं त्वा पश्यामि ध्रुवैधि पोष्ये मयि । मह्यं त्वादाद् बृहस्पति र्मया पत्या प्रजावती संजीवे शरदः शतं” इति । १-८-१९

अस्तमिते—अस्तं गते सूर्ये वरः वधू ध्रुवं—नक्षत्रविशेषं दर्शयति 'ध्रुवमसि'त्यादिमन्त्रेण ।

मन्त्रार्थः (परमेष्ठी, पंक्तिः, प्रजापतिः ईक्षणे)—हे वधु ! त्वं ध्रुवं—ध्रुवा—स्थिरा शाश्वती असि । ध्रुवमिति क्लीवलिङ्गमार्षः । त्वा—त्वां वधूं ध्रुवं तारकाविशेषं, पश्यामि—दर्शयामि । अन्तर्भूतण्यर्थः । त्वं मयि पोष्ये—पोषके वरे ध्रुवा—निश्चिता—भव । पोष्ये इति संबोधन वा । बृहस्पतिः—देवगुरुः त्वा—त्वां मह्यं—वराय अदात्—दत्तवान् । मया पत्या सह त्वं प्रजावती सन्तानयुक्ता सती शरदः शतं— शतं वर्षाणि, सञ्जीव—सम्यक् सुस्थशरीरतया जीव ।