पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 66, कुल 263 में से
संदर्भ में पढ़ेंराज्ञः—प्रजापालने अधिकृतस्य यात्रादि प्रस्थितस्य अक्षभेदे रथावयवभङ्गे, नद्धविमोक्षे—नद्धस्य (णह्वन्धने) बद्धस्य—रथ-विमोक्षे — सन्नहनच्छेदे यानविपर्य्यासे—यानस्य विपर्य्यासे—अश्वमुखादिभावे, वा पक्षान्तरे अथवा अन्यस्यां व्यापत्तौ अन्यस्मिन् अशुभसूचके निमित्ते स्त्रियाश्चोद्वहने—उद्वाहानन्तरं वध्वा -- स्वगृहागमनकाले, तं—पूर्वप्रसिद्धम् एव अग्निं—यथा राज्ञः यात्राप्रास्थानिकनामानं सेनाग्निं स्त्रिया वैवाहिकमग्निम् उपसमाधाय पञ्चभूसंस्कारपूर्वकं संस्थाप्य आज्यं संस्कृत्य ब्रह्मोपवेशनादिपर्य्युक्षणान्तं कर्म विधाय आधारहोमात् प्राक् इहरतिरिति नानामनन्त्राभ्याम् इहरतिरिति उपसृजन्जिति मन्त्राभ्याम् आहुतिद्वयं जुहोति। तत आधारादिस्विष्टकृदन्तः चतुर्दशाहुतिको होमः। अत्र होमे राज्ञः पुरोहितः वध्वाश्च वरः कर्त्ता।
अत्र "एष एव विधिर्यत्र क्वचिद्धोम" इति सामान्येन आज्यसंस्कारे प्राप्ते आज्यं संस्कृत्येति वचनम् आधारहोमात् प्रागेव इहरतिरित्याद्याज्याहुतिद्वयप्राप्त्यर्थम्। इहरतिरित्यादिमन्त्रौ ३-४-८ स्थौ द्र...
अन्यद् यानमुपकल्प्य तत्रोपवेशयेद्राजानग्ँ स्त्रियं प्रतिक्षत्र इति यज्ञान्तेनात्वाहार्षमिति चैतया। १-१०-२
नैमित्तिकहोमान्ते अन्यद् यानं—रथादिकं वाहनं वा उपकल्प्य — संयोज्य तत्र—तस्मिन् नवीने याने राजानं—नृपं स्त्रियं च उद्वाहितां च उपवेशयेत्—आरोहयेत् मन्त्रपाठपूर्वकम् उपविश इति प्रेरणया राजानं पुरोहितः, स्त्रियः तस्याः पतिः, मन्त्रद्वयेन। केन मन्त्रद्वयेन ? प्रतिक्षत्र इत्यादिना प्रतितिष्ठामि यज्ञ इत्यन्तेन (२०—१०) एकेन तथा आत्वाहार्षमिति (१२—११) एतया ऋचा च अपरया। मन्त्रयोः सम्पूर्णः पाठः :—
"प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् प्रतिप्राणेषु प्रतितिष्ठामि पुष्टौ द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे ॥ शु. य. २०-१० ॥"
"आत्वाहार्षमन्तरभूध्रुवस्तिष्ठाविचाचलिः विशस्त्वा वाञ्छन्तु मा त्वद्राष्ट्रमधिभ्रशत् ॥ शु. य. १२-११ ॥"