भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 67, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 67

( ४५ )

धुर्य्यौ दक्षिणा प्रायश्चित्तिः । १-१०-३

धुर्य्यौ—धुरि भारवहने साधू अनड्वाहौ, दक्षिणा—दक्षिणात्वेन ब्राह्मणेभ्यो देया । दक्षिणाशब्दः परिक्रयार्थे द्रव्ये वर्त्तते । इदं कर्म प्रायश्चित्तिः — दुर्निमित्तसूचितदुरितापहारिणी । अतः सति निमित्ते भवति ।

ततो ब्राह्मणभोजनम् । १-१०-४

ततः कर्मसमाप्त्यनन्तरं ब्राह्मणभोजनं—ब्राह्मणस्य ब्राह्मणयोः ब्राह्मणानां वा भोजनं यथाशक्ति कारयितव्यम् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे दशमी कण्डिका ॥


( चतुर्थीकर्म )

चतुर्थ्यामपररात्रेऽभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती—र्जुहोति । १-११-१

चतुर्थ्यां—विवाहदिवसमारभ्य चतुर्थ्यां तिथौ अपररात्रे—रात्रेः पश्चिमयामे अभ्यन्तरतः—गृहमध्ये अग्निं—वैवाहिकमग्निम् उपसमाधाय पञ्चभूसंस्कारपूर्वकं संस्थाप्य, दक्षिणतः—अग्नेर्दक्षिणभागे ब्रह्माणं—पूर्वोक्तलक्षणं वरणेन संपादितं ब्राह्मणम् उपवेश्य—संस्थाप्य उत्तरतः—अग्नेरुत्तरस्यां दिशि, उदपात्रं—जलपूर्णताम्रादिपात्रं प्रतिष्ठाप्य—स्थापयित्वा स्थालीपाकं—चरुं श्रपयित्वा—यथाविधि पक्त्वा आज्यभागाविष्ट्वा—आघारपूर्वक्रमाज्यभागाहुतिद्वयं हुत्वा आज्याहुतीः—आज्येन वक्ष्यमाणाः पञ्च आहुतीः जुहोति "अग्ने प्रायश्चित्ते" इत्यादिभिः पञ्चभिर्मन्त्रैः ।